This page has not been fully proofread.

भक्तस्वरूपवर्णनम् ।
 
२३
 
ननु किमर्थे भक्तान् स्तौषि, त्वमपि[^१] नामानि पठन्, गुणकथाश्च कथयन्,

मद्रूपं च स्मरन् तेषामन्यतमो भवेत्याशङ्कायामहं तावत् तान् भक्ताननुकर्तुमस-

मर्थ इत्याह-
दशकम्
- ३]
 
-
 

 
गदक्लिष्टं कष्टं तव चरणसेवारसभरे-

ऽप्यनासक्तं चित्तं भवति त विष्णो ! कुरु दयाम् ।

भवत्पादाम्भोजस्मरणरसिको नामनिवहा-

नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ २ ॥
 

 
गदेति । बाह्यैर्वातादिभिरान्तरै रागादिभिश्च गदैर्व्याधिभिः क्लिष्टं सञ्जातक्लेशं

मदीयं चित्तं तव चरणसेवारसभरे भवत्पादाम्बुजोपासनरूपे सुखातिशयेऽप्यनासक्तं

समाधातुमशक्यं भवति, कष्टं बत खिन्नोऽस्मि । हे विष्णो ! मय्यनन्यशरणे दयां

कुरु । अहं तु भवत्पादाम्भोजस्मरणे[^२] रसिकः यद्यहमरोगोऽभविष्यं तर्ह्यस्मरिष्यमिति

सोत्कण्ठः सन् नाम्नां निवहान् समूहान् गायंगायं पुनःपुनः सङ्कीर्तयन् कुहचन

कुत्रापि विजने प्रदेशे विवत्स्यामि[^३] विशिष्टं वासं करिष्यामि ॥ २ ॥
 

 
कृपा ते जाता चेत् किमिव न हि लभ्यं तनुभृतां

मदीयक्लेशौ प्रशमनदशा नाम कियती ।
 

न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता

भवद्भक्ता मुक्ताः सुखगतिमसक्ता विद्यदधते ॥ ३॥
 

 
कृपेति । अयि विष्णो ! ते कृपा जाता चेत्, तनुभृतां स्त्रीशूद्रादीनां गज-

मृगादिशरीरभाजामपि किमिव हि न लभ्यं, तिष्ठन्त्वितरे पुरुषार्थाः, त्वदैक्यं

मोक्षोऽपि तेषां सुलभ एव । एवं स्थिते मदीयाः क्लेशा विविधा आधयो व्याधयश्च

तेषामोघस्य समूहस्य प्रशमनदशा समूलोन्मूलनरूपावस्था कियती अतिलघीयसी

नाम, यथा ज्वलनज्वालावलीढतूलराशेः प्रशमनदशा, तद्वदिति भावः । नन्वेता-

दृक्कृपापात्रीभूता दुर्लभा इति चेद्, नेत्याह - -न के क इति । के के जना अनिशं

सर्वदा शोकाभिरहिताः निवृत्तशरीराद्यहंममाभिमानतया तन्मूलाधिव्याधिक्लेशविरहि-

ताः भवद्भक्ताः भवतीश्वरे लब्धप्रेमतया नामानि कीर्तयन्तश्चरितानि गायन्तश्च मुक्ता

जीवन्मुक्ता भूत्वास्मिन् लोकेऽसक्ताः परानुग्रहैकपराः सुखगतिम् अभीष्टसञ्चारं न

 
[^
]. 'पि प' क. पाठः
[^
]. 'ण' ख. पाठः
[^
]. 'मि वा' क. पाठ: