This page has not been fully proofread.

३६४
 
नारायणीये
 
किश्च,
 
त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् ।
 
तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमंक्रान्तविश्वं
त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ ९॥
 
[स्कन्धः - १२
 
त्रैलोक्यमिति । इदं त्रिगुणमयं सत्त्वरजस्तमस्तारतम्येन विलक्षणं त्रैलोक्यं
भावयन्तं नियमेन सृजन्तं व्यक्षरस्य प्रणवस्य एकं प्रधानं वाच्यम् अभिधेयं
त्रीशानां त्रिमूर्तीनाम् ऐक्यं स्वरूपं यस्य तम् । "ब्रह्मा विष्णुश्च रुद्रश्च परस्यैव
विभूतयः " इति वचनात् । त्रिभिर्निगमैः त्रय्या गीयमानं प्रतिपाद्यमानं रूपं
यस्य । तिस्रोऽवस्थाः जाग्रत्स्वमसुषुप्तयः, तां वेत्तीति विदन् अवस्थात्रयसाक्षी
तम् । कृतयुगे प्रजानां कृतकृत्यतयावतारप्रयोजनाभावादितरेषु त्रिषु त्रेताद्वापरकलि-
युगेषु जनिम् अवतारं जुषत इति तथा । त्रिभिः क्रमैः पदविक्षेपैः क्रान्तम् आक्रान्तं
विश्वं येन । त्रैकाल्ये भूतभविष्यद्वर्तमानेषु कालेषु भेदहीनम् अद्वितीयं, जायते-
ऽस्तीत्यादिषड्भावविकारहीनं वा । एवम्भूतं त्वाम् अहमनिशं त्रिभिर्योगभेदैः
कर्मज्ञानभक्तियोगैः भजे ॥ ९ ॥
 
किच,
 
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् ।
निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त-
र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ १० ॥
 
१.
 
सत्यमिति । तव तद्वपुः स्वरूपं जयति आविर्भूतनिरतिशयोत्कर्षं प्रका-
शते । सत्यादीनि वपुर्विशेषणानि । सत्यं परमार्थसत्यम् असतः सत्ताप्रदत्वात् ।
विबुद्धं स्वप्रकाशसिद्धम् । मुक्तावस्थाया जन्यत्वेऽसत्यत्वप्रसक्तेः नित्यमुक्तम् । निरीहं
 
'मा' क. ग. पाठ:. २. 'त्वेऽनिल' क. ग. पाठ:.