2023-02-16 08:52:51 by ambuda-bot
This page has not been fully proofread.
१६३
दशकम् - ९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् ।
―
२
भूषास्विति। ते तद् जगत्कारणभूतम् अद्वितीयं परब्रह्माख्यं वपुः स्वरूपम्
(अधुना) अद्यापि जगतः स्थितिकालेऽपि जगति जगद्विषये स्फुरति। नन्विदं
ब्रह्मेति कस्यापि नानुभव इत्यत्राह – तत्त्व इति । तत्त्वे परमार्थे सञ्चिन्त्यमाने
विचार्यमाणे। ब्रह्म उपादानं, जगत् तत्कार्य, कार्यकारणयोरनन्यत्वं च शास्त्रे स्थितम्
इत्यनुसन्दधतो ब्रह्मैवेदं सर्वमिति स्फुरणं सम्भवत्येवेति भावः । अत्र दृष्टान्तमाह -
भूषा स्विति । कटककुण्डलादिषु यथा स्वर्ण स्फुरति, यथा वा घटशरावा-
दिके मृत्ति का, स्वर्णादिभिः क्रियमाणेषु कार्येषु कटकादिषु स्वर्णमेवेदमित्यनु-
भवरूपा प्रतीतिरुदेति, तद्वदित्यर्थः । किञ्च, विद्यालाभे ब्रह्मज्ञाने सति
अविद्यास्तमयात् स्फुटं विकसेदपि प्रपञ्चाकारपरित्यागेनाखण्डं ब्रह्मेति प्रकाशेत
चेत्यर्थः । अत्र दृष्टान्तः स्वमेति । स्वमद्रष्टुः प्रबोधे सति यद्वदज्ञानकल्पित-
प्रपञ्चलयः, यद्वञ्च दीपादिना तिमिरलयविधौ जीर्णरज्जोर्ज्ञानेन तदज्ञानकल्पित-
सर्पलयः, तथैवेत्यर्थः । हे कृष्ण ! यस्य ते वपुरुक्तप्रकारेण विकसेत्, तस्मै
नमस्ते इति योजना ॥७॥
-
एवं सप्रपञ्चनिष्प्रपञ्चभेदेन तत्स्वरूपं स्तुत्वा सर्वनियन्तृत्वेन स्तौति —
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये
यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् ।
येनैवारोपिताः प्राङ् निजपदमपि ते च्यावितारश्च पश्चात्
तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामम् ॥ ८ ॥
यद्भीत्येति । यस्माद् भीत्या सूर्य उदेति । उचितबलीन् यथाधिकारं
विहिताः पूजा आहरन्ते प्रयच्छन्ति । ते पद्मजाद्याः येन प्राङ् निजपदं सत्यलो-
कादि आरोपिताः प्रापिताः पश्चाद् द्विपरार्धाद्यवसाने येन च्यावितारः च्युतिं
प्रापिताश्च भविष्यन्ति, तस्मै विश्वं नियन्त्रे ब्रह्मादीनामपि नियामकाय सर्वेश्वराय
वयमपि भवते हे कृष्ण ! प्रणामं कुर्मः ॥ ८ ॥
२. 'भि: कार्यस्य कर्तव्यस्य कटकादिभिः क्रियमाण-
'ति स्फु' ख पाठ:.
त्वात् स्व' क. पाठः, 'भिः कार्यस्य कटकादिभिः क्रियमाणत्वात् स्व' ग. पाठः,