This page has been fully proofread once and needs a second look.

१६३
 
दशकम् - ९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् ।
 

 

 
भूषास्विति। ते तद् जगत्कारणभूतम् अद्वितीयं परब्रह्माख्यं वपुः स्वरूपम्

(अधुना) अद्यापि जगतः स्थितिकालेऽपि जगति[^१] जगद्विषये स्फुरति। नन्विदं

ब्रह्मेति कस्यापि नानुभव इत्यत्राह--तत्त्व इति । तत्त्वे परमार्थे सञ्चिन्त्यमाने

विचार्यमाणे। ब्रह्म उपादानं, जगत् तत्कार्यं, कार्यकारणयोरनन्यत्वं च शास्त्रे स्थितम्

इत्यनुसन्दधतो ब्रह्मैवेदं सर्वमिति स्फुरणं सम्भवत्येवेति भावः । अत्र दृष्टान्तमाह -
--
भूषा स्विति । कटककुण्डलादिषु यथा स्वर्णं स्फुरति, यथा वा घटशरावा-

दिके मृत्ति का, स्वर्णादिभिः[^२] क्रियमाणेषु कार्येषु कटकादिषु स्वर्णमेवेदमित्यनु-

भवरूपा प्रतीतिरुदेति, तद्वदित्यर्थः । किञ्च, विद्यालाभे ब्रह्मज्ञाने सति

अविद्यास्तमयात् स्फुटं विकसेदपि प्रपञ्चाकारपरित्यागेनाखण्डं ब्रह्मेति प्रकाशेत

चेत्यर्थः । अत्र दृष्टान्तः स्वमेति । स्वम--स्वप्नेति । स्वप्नद्रष्टुः प्रबोधे सति यद्वदज्ञानकल्पित-

प्रपञ्चलयः, यद्वञ्च्च दीपादिना तिमिरलयविधौ जीर्णरज्जोर्ज्ञानेन तदज्ञानकल्पित-

सर्पलयः, तथैवेत्यर्थः । हे कृष्ण ! यस्य ते वपुरुक्तप्रकारेण विकसेत्, तस्मै

नमस्ते इति योजना ॥७॥
 
-
 

 
एवं सप्रपञ्चनिष्प्रपञ्चभेदेन तत्स्वरूपं स्तुत्वा सर्वनियन्तृत्वेन स्तौति
 
--
 
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये

यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् ।

येनैवारोपिताः प्राङ् निजपदमपि ते च्यावितारश्च पश्चात्

तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामम् ॥ ८ ॥
 

 
यद्भीत्येति । यस्माद् भीत्या सूर्य उदेति । उचितबलीन् यथाधिकारं

विहिताः पूजा आहरन्ते प्रयच्छन्ति । ते पद्मजाद्याः येन प्राङ् निजपदं सत्यलो-

कादि आरोपिताः प्रापिताः पश्चाद् द्विपरार्धाद्यवसाने येन च्यावितारः च्युतिं

प्रापिताश्च भविष्यन्ति, तस्मै विश्वं नियन्त्रे ब्रह्मादीनामपि नियामकाय सर्वेश्वराय

वयमपि भवते हे कृष्ण ! प्रणामं कुर्मः ॥ ८ ॥
 

 
[^१]. 'ति स्फु' ख पाठः
[^
]. 'भि: कार्यस्य कर्तव्यस्य कटकादिभिः क्रियमाण-
'ति स्फु' ख पाठ:.
 
त्वात् स्व' क. पाठः, 'भिः कार्यस्य कटकादिभिः क्रियमाणत्वात् स्व' ग. पाठः,