This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १२
 
फलशालित्वलक्षणमुख्यकर्तृत्वं विना प्रकृतिमुखेनेश्वरस्य जगत्कर्तृत्वमिति भावः ।

हे कृष्ण ! य एवं, तस्मै ते नमोऽस्तु ॥ ५ ॥
 

 
ननु केयं मूलप्रकृतिरित्याशङ्क्य सदसत्त्वाभ्यामनिर्वचनीया विद्याविद्यात्मि
-
केश्वर[^१]स्य शक्तिरित्याह-
-
 
सत्
त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा

धत्ते यासावविद्या गुणफणिमतिवद् विश्वदृश्यावभासम् ।

विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे
 

संसारारण्य सद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥ ६॥
 

 
सत्त्वेनेति । यस्येयमविद्या तज्ज्ञाने सति निवर्तते । अतः सतीति वक्तुम-

शक्या, सत्तास्फूर्त्यनुपपत्तेः । नासती च, एकैव सती असती चेति नितरामनु-

पपन्ना विरोधात् । अतोऽविद्या सत्त्वेनासत्तया सदसत्त्वेन वा न निर्वाच्यरूपा

निष्कृष्य वक्तुमशक्यं स्वरूपं यस्याः सा तथा । तर्हि नास्तीति चेद्, नेत्याह-
-
असाविति । 'अहमज्ञ्' इति सर्वानुभवसिद्धतया तदनवकल्पनमशक्यमिति भावः।

यासावविद्या गुणफणिमतिवद् रज्जुसर्पभ्रान्तिवद् विश्वदृश्यस्य सकलजगतः

अवभासं जीवस्य संसारदु: खनिवासभूतं शरीराद्यहम्ममाभिमानादिरूपं धत्ते

करोतीत्यर्थः । यस्येश्वरस्य कृपायाः स्यन्द: प्रवाहः, तस्य लाभे सति सैव अविद्या

श्रुतिवचनलवैः वेदान्तवाक्यलेशैः, श्रवणमात्रेणेत्यर्थः, विद्यात्वं याता विद्यारूपिणी

भूत्वा संसाररूपस्यारण्यस्य वनस्यातिनिशिततया सद्यः शीघ्रं त्रुटने खण्डने

परशुतामेति, तस्मै नमस्ते ॥ ६ ॥
 

 
एवं प्रकृत्यधिष्ठितस्य ब्रह्मणो जगत्कारणत्वमुक्तम् । अथ तदनन्यत्वेन

जगदात्म[^२]त्वमुच्यते-
-
 
भूषासु स्वर्णवद् वा जगति घटशरावादिके मृत्तिकाव
त्
तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते ।

स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद्

विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण ! तस्मै नमस्ते ॥७॥
 

 
[^
]. 'रश' क. ग. पाठ:. ठः
[^
]. 'त्मकत्व' क. ग. पाठः,