This page has been fully proofread once and needs a second look.

दशकम् - ९८] त्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् । ३६१
सर्वबि
र्वविनाशे ईश्वरस्यापि नाश[^१] इति किं न स्यादित्यत्राह--गम्भीर इति । गम्भीरे

अप्रतयेंर्क्ये तमसि सुषुप्तौ जायमान इति । अयमभिप्रायः -- --सर्वसंहारे सुषुप्तौ सति

सकलजगन्निदानभूतमज्ञानं तमश्शब्दवाच्यं न लयं[^२] गच्छति, अन्यथा जगत:
तः
पुनरुत्पत्त्यभावात्, सुखमहमस्वाप्सं न किञ्चिद वेदिषमित्युत्थितस्य परामर्शानुपप-

त्तेश्चेति । एवञ्च तदापि वितिमिरः नित्योदितानस्तमितप्रकाशरूपतयाज्ञानसाक्षि-

त्वेन भासि ! द्रष्ट्रभावे दृश्यासिद्धेरित्यभिप्रायः । य एवम्भूतः तस्मै नमस्ते ॥ ४॥
 

 
नन्वीश्वरस्य जगत्कारणत्वमसिद्धं वादिविप्रतिपत्तरित्याशङ्कायां संज्ञाभेद एव

विप्रतिपत्तिः न संज्ञिनीत्याह-
-
 
-
 
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् ! काल इत्यालपन्ति

त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् ।

वेदान्तैर्यत् तु गीतं पुरुषपरचिदात्माभिधं तत् तु तत्त्वं

प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण ! तस्मै नमस्ते ॥ ५॥
 

 

 
शब्दब्रह्मेति[^३]। त्वामेकमेव शब्दब्रह्मेत्यादिभिः शब्दैः विश्वहेतुं जगत्कार-

णमालपन्ति वादिनः । शब्दब्रह्म जगत्कारणमिति[^४] केचिदालपन्ति, केचित्
[^५]
कर्म जीवादृष्टमिति, अन्ये परमाणुरिति अपरे काल इति । एषां शब्दानां

त्वमेक एवाभिधेय इति भावः । अत्र हेतुः--सकलमयतया तव सर्वात्मकत्वेन ।

सर्वथा तत्तद्दर्शनानुसारेण शब्दब्रह्मादिरूपेण तवैव कल्प्यमानत्वादित्यर्थः ।

सिद्धान्तमाह--वेदान्तैरिति । वेदान्तैस्तु यत् पुरुषपरचिदात्माभिधं तत्त्वं, तत्तु

प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृद् गीतमित्यन्वयः । अत्र पुरुषः 'मायायां बिम्बि
-
तस्त्वम्' (श्लो. ४) इति प्रागुक्तंः, परः मायासम्बन्धरहितः, चिदिति शुद्धचैतन्यम्,

आत्मा सर्वानुगतः । पुरुषादिशब्दा अभिधा यस्य तत् तथा । तत्तु तदेव तत्त्वं

परं ब्रह्म प्रेक्षामात्रेण मायाप्रेरणमात्रेण मूलप्रकृतिर्माया, तस्या विकृतिः कार्यं जगत्,

तत् करोतीति तथा । ननु प्रकृतेः कार्येयं कथं ब्रह्म करोतीति[^६] । उच्यते । यथा

राजा प्रेक्षणमात्रेण सन्निधिं प्राप्तया प्रतीहार्या कर्म करोति, तद्वत् स्वसमवेतक्रिया -
 

 
[^१]
. 'य यातिशः किं' ख. पाठ:
'त्याल
ठः
[^२]. 'य याति
' ख. पाठः,
 

[^३]
. 'श: किंति । एके वादिनस्त्वो शब्दब्रह्म' ख. पाठः,
 
स्त्वो शब्दब्रह्म

[^४]. 'त्याल
' ख. पाठ: ४ठः
[^५]
.
'तत्युि
'त् जी' ख. पाठः
[^६]. 'तीत्यु
च्यते । उच्यत एव । य' ख. पाठः,
 
३. 'ति । एके वादिन
 
५. 'तू जी' ख. पाठ:.