This page has been fully proofread once and needs a second look.

तवेश्वरस्य
tavesvarasya
 
३६०
 
नारायणीये
 
[स्कन्धः- १२
 
नो तिर्यञ्चमिति । ते तवेश्वस्य रूपं परब्रह्म नो तिर्यञ्चं न पशुपक्ष्यादि-

कमाहुः आगमास्तद्विदो वा । न मर्त्यं मनुजं सुरं देवम् असुरं न स्त्रियमिति । स्त्रीपु-

न्नपुंसकभेदेन त्रिप्रकारं शरीरमुच्यते । द्रव्यं विषयान् । कर्म कर्मेन्द्रियाणि । जातिं

ब्राह्मणत्वादि। गुणं ज्ञानेन्द्रियाणि । सद् अन्तःकरणम् । असद् अव्यक्तम् । देवादीनां

परिच्छिन्नत्वेन देहादीनां जडत्वेन चैतानि न ते स्वरूपमाहु:, किन्तु निगमेनैवं

निषेधे सति यत्तच्छिष्टम् अवधिभूतं स्यात् । अत एव निगमशतैः उपनिषद्भिः

कृच्छ्रेण वाच्यवाचकसम्बन्धं विना लक्षणावृत्तित आवेद्यमानं प्रतिपाद्यमानं परमसुख-

मयं परमानन्दरूपं भाति च । अत्र निषेधवाक्यस्य मुख्यार्थस्य निषेधे[^१] बाधितत्वात्

तदवधिभूतेऽर्थे या वृत्तिः, सा लक्षणावृत्तिः । तथा प्रतिपाद्यमानं सद् अहं ब्रह्मा-

स्मीति निष्कर्मतया त्वत्स्वरूपभूतं परं ब्रह्म प्रकाशत इत्यर्थः ॥ ३ ॥
 
-
 

 
अथ निषेधशेषस्याशेषत्वमशेषसाक्षित्वेन प्रतिपादयति
 
--
 
मायायां विबिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै-

र्
भूतग्रामेन्द्रियाद्यैरपि सकलजगत् स्वप्नसङ्कल्पकल्पम् ।

भूयः संहृत्य सर्वेवं कमठ इव पदान्यात्मना कालशक्त्या

गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ ४ ॥
 

 
मायायामिति । स्वस्मात् पृथगवस्थितायां मायायां चिच्छक्त्या प्रतिबि-

म्बितस्त्वं महत्तत्त्वेन अहङ्कारभेदै: राजसतामससात्त्विकै: शब्दस्पर्शरूपरसगन्धा

इति. पञ्चतन्मात्रभेदैः भूतादिभिः एकादशेन्द्रियैः आदिशब्देन प्राणादिभिरपि

सकलं जगत् सृजसि । स्वप्नसङ्कल्पकल्पमिति आगमापायित्वात् स्वप्नसङ्कल्पवदयं

जाग्रत्प्रपञ्चो मिथ्येत्यर्थः । भूयः पुनश्च यथा कूर्मश्चिरं विहृत्य भूयः स्वपदानि

स्वस्मिन् संहृत्य तूष्णीं भवति, एवं कालशक्त्या सर्वेवं संहृत्य आत्मना स्वस्वरूपे-

णैव भासि । एवञ्चादावन्ते चासत्त्वात् प्रपञ्चस्य मध्येऽपि मिथ्यात्वमुक्तम् ।

ईश्वरस्यादिमध्या[^२]न्तेषु प्रपञ्चप्रकाशकत्वेन सत्त्वात् साक्षित्वं नित्यत्वं चोक्तम् । ननु
 

 
[^
]. 'धबावा' क. ग. पाठः,
[^
]. 'ध्यावसानेषु ' क. ग. पाठ:
 
ठः