This page has not been fully proofread.

दशकम् - ९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् ।
 
३५९.
 
इति चेद्, नेत्याह—योऽस्मादिति । अस्माद् आत्मन्यविद्याकल्पिताज्जगतः उत्तीर्ण
व्यतिरिक्तं रूपं यस्य ॥ १ ॥
 
एवमीश्वरस्य जगत्कारणत्वमुपपाद्य अनन्तरं जगदनुग्राहकत्वमाह-
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
लोकानामृतये यः स्वयमनुभजते तानि मायानुसारी ।
बिभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा
तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो ! नमस्ते ॥ २ ॥
 
जन्मेति । जन्म श्रीकृष्णाद्यवतारः अथो अनन्तरं कर्म कंसहननादि
नाम जन्मकर्मनिमित्तम् । गुणदोषाः निग्रहानुग्रहादयः । आदिशब्देन पुत्रमित्रादयः ।
एतानि यस्मिन् स्फुटं परमार्थतो न सन्ति, तथापि लोकानामूतये जगदनुग्रहाय
मायानुसारी तानि जन्मकर्मादीनि स्वयम् अनन्याधीनस्वभावः सन् अनुभजते
अङ्गीकरोति अपिच शक्तीः विद्याविद्याज्ञानैश्वर्यादिलक्षणाः बिभ्रत् स्वयमरूपो निर्गु-
णोऽपि स्थावरजङ्गमभेदेन सुरनरतिर्यगादिभेदेन च बहुतररूपश्चावभाति, अतो-
अद्भुतात्मा आश्चर्यस्वरूपः, तस्मै जगदनुग्राहकाय पररसेन परमानन्देन परिपूर्णाय
अत एव कैवल्यधाम्ने मोक्षप्रदाय ॥ २ ॥
 
ननु बहुतररूपत्वे कथमरूपत्वमित्याशङ्कच तत्स्वरूपस्य सर्वद्वैतनिषेधाव-
धित्वेनोपपादयति
 
-
 
नो तिर्यञ्चं न मर्त्य न च सुरमसुरं न स्त्रियं नो पुमांसं
न द्रव्यं कर्म जातिं गुणमपि सदसद् वापि ते रूपमाहुः ।
शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्
कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ ३ ॥
 
१. 'पो विभा' क. ग. पाठः,