This page has been fully proofread once and needs a second look.

दशकम् इति चेद्, नेत्याह- ९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् ।
 
३५९.
 
इति चेद्, नेत्याह—
-योऽस्मादिति । अस्माद् आत्मन्यविद्याकल्पिताज्जगतः उत्तीर्
णं
व्यतिरिक्तं रूपं यस्य ॥ १ ॥
 

 
एवमीश्वरस्य जगत्कारणत्वमुपपाद्य अनन्तरं जगदनुग्राहकत्वमाह-
-
 
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्

लोकानामृतये यः स्वयमनुभजते तानि मायानुसारी ।

बिभ्रच्छक्तीररूपोऽपि च बहुतररूपो[^१]ऽवभात्यद्भुतात्मा

तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो ! नमस्ते ॥ २ ॥
 

 
जन्मेति । जन्म श्रीकृष्णाद्यवतारः अथो अनन्तरं कर्म कंसहननादि

नाम जन्मकर्मनिमित्तम् । गुणदोषाः निग्रहानुग्रहादयः । आदिशब्देन पुत्रमित्रादयः ।

एतानि यस्मिन् स्फुटं परमार्थतो न सन्ति, तथापि लोकानामूतये जगदनुग्रहाय

मायानुसारी तानि जन्मकर्मादीनि स्वयम् अनन्याधीनस्वभावः सन् अनुभजते

अङ्गीकरोति अपिच शक्तीः विद्याविद्याज्ञानैश्वर्यादिलक्षणाः बिभ्रत् स्वयमरूपो निर्गु-

णोऽपि स्थावरजङ्गमभेदेन सुरनरतिर्यगादिभेदेन च बहुतररूपश्चावभाति, अतो-

द्भुतात्मा आश्चर्यस्वरूपः, तस्मै जगदनुग्राहकाय पररसेन परमानन्देन परिपूर्णाय

अत एव कैवल्यधाम्ने मोक्षप्रदाय ॥ २ ॥
 

 
ननु बहुतररूपत्वे कथमरूपत्वमित्याशङ्कचक्य तत्स्वरूपस्य सर्वद्वैतनिषेधाव-

धित्वेनोपपादयति
 
-
 
-
 
नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं

न द्रव्यं कर्म जातिं गुणमपि सदसद् वापि ते रूपमाहुः ।

शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्

कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ ३ ॥
 

 
[^
]. 'पो विभा' क. ग. पाठः,