This page has been fully proofread once and needs a second look.

३५८
 
नारायणीये
 
[स्कन्धः- १९७०
 
परि विष्णुलोके विष्णुमन्दिरं, तदुपरि शि[^१]वलोके शिवमन्दिरमिति । तत्रस्थाः

सृष्टिस्थितिसंहारकर्तारस्त्रिमूर्तयः । तेभ्योऽप्यूर्ध्वं तु ब्रह्माण्डाद् बहिः । अत एव

मायाविकृतयः महदहङ्कारादयः षोडशविकाराः, तैर्विरहितः शुद्धसत्त्वगुणमयो

वैकुण्ठलोको भाति । तत्र वैकुण्ठलोके कारणाम्भसि आवरणोदके पशुपकुले नन्द-

गेहेऽपि त्वं शुद्धसत्त्वैकरूपी तत्स्वच्छतयावरणाभावात् सच्चिद्ब्रह्माद्वयात्मा सच्चि-

दानन्दाद्वयब्रह्मवपुरेव त्वम् । अतः सर्वरोगान्मां पाहि मोचयेति ॥१०॥
 

 
इत्युत्तमभक्तिप्रार्थनावर्णनं मार्कण्डेयस्य प्रलयप्रदर्शनवर्णनं, परमेश्वरप्रसादवर्णनं च

 
सप्तनवतितमं दशकम् ।
 

 
एवं स्तुत्यस्य विष्णोर्निष्कलत्वं प्रसाध्य तद्रूपेण स्तौति
--
 
यस्मिन्नेतद् विभातं यत इदमभवद् येन चेदं य एतद्

योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।

यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा
 
"
 

नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण ! तस्मै नमस्ते ॥ १ ॥

 
यस्मिन्निति । हे कृष्ण ! तस्मै सच्चिदानन्दस्वरूपाय ते नमः । ननु

स्तूयतां, किं नमस्कारमात्रेणेत्यत्राह--यस्येति । देवा मुनीन्द्रा अपि यस्य तत्त्व-

रूपं, तदिति सर्वनाम, सर्वेवं च ब्रह्म, तस्य भावस्तत्त्वं ब्रह्मत्वं तद्रूपं न विदुः ।

के पुनरत्र वयं ज्ञातुं स्तोतुं वेति भावः । दुर्जेज्ञेयत्वमेवाह--यो वाचामिति ।

लौकिकानां वैदिकानामपि वचसां दूरदूरे, वाच्यवाचकसम्बन्धाभावात् । पुनर्मन-

सामपि दूरदूरे । अत्र हेतुः --यस्य भासा चिच्छक्त्या सकलमिदं जगद् भासितं

प्रकाशितम्। यत्प्रकाशेन लब्धसत्ताकं मनआदि, तेन तत्प्रकाशनमशक्यमित्यर्थः ।

तर्हि ज्ञातुमशक्यत्वादसदेवेदमित्यायत्रा--यस्मिन्निति । यस्मिन्नधिष्ठाने एतद्

जगद् विभातं तिष्ठति । यतो निमित्तोपादानकारणभूतादिदं जगदभवत् । येन इदं

जगद्, चकारादैक्यं याति लीयत इत्यर्थः । अतो जगत्कारणत्वाद् एतद् जगद्

यः यद्रूपः ईश्वर एव जगदात्मना भाति । अतो जगदात्मना प्रतीतस्य

सिद्धौ न प्रमाणान्तरापेक्षेति भावः । नन्वीश्वरस्य जगदात्मत्वे विकारित्वप्रसङ्ग
 

 
[^
]. 'पुरभिल्लोके पुरभित्पुरमि' क. ग. पाठ:.
 
ठः