This page has not been fully proofread.

दशकम्-९७]
 
मार्कण्डेयस्य परमेश्वरप्रसादवर्णनम् ।
 
पुनश्च बहिरनुपतितः त्वयि पिहिततनौ अन्तर्हिते सति स्वाश्रमे पुष्पभद्रातीरे
प्राग्वद् यथास्थानं स्थितश्चासीत् । अत्र च मायायाः स्वरूपतः प्रदर्शनस्या-
शक्यत्त्राद् भगवता कार्यमुखेन दर्शितेति द्रष्टव्यम् ॥ ८ ॥
 
अथ विष्णुभक्त्या सन्तुष्टस्य शिवस्यानुग्रहप्रकारमाह-
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्मियप्रेक्षणार्थी
सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् ।
एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा-
न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ ९ ॥
 
गौर्येति । तस्य मार्कण्डेयस्य अग्रे पुरतः । अस्य स्वयं सिद्धान् स्वतपः-
प्रभावेणैव प्राप्तान् अजरामृत्युतादीन्, आदिशब्देन विष्णुभक्तियशोज्ञानविज्ञानपु-
राणाचार्यतादीन् वरान् दत्त्वा अयं शिवः गतोऽभूत् । अनेन च विष्णोः सर्वेश्वरत्वं
सिद्धमित्याह—एवमिति । त्वं विष्णुः सकल नियन्ता सर्वेश्वर इति सुव्यक्तं
निश्चितमासीत् । अत्र हेतुः— मूर्तित्रयात्मकस्त्वं नन्विति । मूर्तित्रयी ब्रह्म-
विष्णुगिरीशाः तदात्मकः तत्स्वरूपः । अत्र हेतुः – त्वत्सेवयेति । स स्मर-
रिपुरपि त्वत्सेवयैव प्रीयते येन तस्माद् विष्णोरेव कार्यनिमित्तमवस्थाभेदो
मूर्तित्रयमित्यभिप्रायः ॥ ९॥
 
-
 
ननु शिवस्यावस्थाभेद इति किं न स्यादित्याशङ्क्य स्थानभेदेन विष्णो -
स्तेभ्यो व्यतिरेक ऐक्येऽपि सम्भवतीत्याह--
त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्व
तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः ।
तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते ! पाहि मां सर्वरोगात् ॥१०॥
 
त्र्यंश इति । त्रयो ब्रह्मविष्णुशिवलोकरूपा अंशा लोकाः यस्मिन् स
त्र्यशः तस्मिन् सत्यलोके ऊर्ध्वमूर्ध्वमिति प्रथमं ब्रह्मलोके विधिमन्दिरं, तदु -