This page has been fully proofread once and needs a second look.

प्रीत्येति । तत्तपसा जातेन प्रसादेन नरसखो नारायणीये
 
[स्कन्धः - १२
 
प्रीत्येति । तत्तपसा जातेन प्रसादेन नरसखो नाराय
णाख्यस्त्वमस्य पार्श्वे
वं
प्राप्तवान् । अथ अनन्तरं स तु तुझाष्ट्या तोष्ट्र्टूयमानः पुनः पुनरतिशयेन वा स्तुतिं

कुर्वन् त्वया विविधैर्वरैः प्रलोभितो नानुमेने न तान् वरानवृणोत् । अत्र हेतुः-
-
भक्तितृप्तान्तरात्मेति । भक्त्या तव भजनेनैव तृप्तः पूर्णः अन्तरात्मा मनो यस्य ।

किञ्च, त्वदीयां मायां द्रष्टुमवृणोच्च । को'[^१] हि नाम दुःखदात्रीं मायां वृणुयात् ।

अतोऽस्मिन्नसम्भावनीयमेतदिति किलशब्दा[^२]र्थः । अथवा मायैय[^३]या यद् दुःखं, तद-

नभिज्ञो जन्मप्रभृति । अत आश्चर्य हेतोः अननुभूतस्य दर्शने ह्याश्चर्यं भवति[^४],

अतः तदपि मायादुःखमपि मृगयते अनुबुभूषति नूनम् इति तर्कयामि ॥ ६ ॥

 
याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्ण-

त्
सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः ।

दीन: मैप्रौक्षिष्ट दूरे बटदलशयनं कञ्चिदाश्रर्यवाचर्यबालं

त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ ७ ॥
 

 
यात इति । त्वयि नरनारायणाख्ये आशु तस्य मायोया[^५]दर्शन[^६]प्रार्थनानन्तरमेव

याते बदरिकाश्रमं प्रति गते सति । वातेन आकुलेभ्यः इतस्ततश्चालितेभ्यो जल-

देभ्यो गलता तोयेन पूर्णैः अत एव अतिघूर्णद्भिः उपर्युपरि प्रसर्पद्भिः सप्तार्णोरा-

शिभिः जगति मग्नेति स तु मार्कण्डेयः वर्षकोटी: जले सम्भ्रमन् दीनो

वटदलशयनं कञ्चिदाश्चर्यबालं दूरे प्रैक्षिष्ट ॥ ७ ॥
 

 
दृष्ट्वा त्वां दृहृष्टरोमा त्वरितमँम[^७]भिगतः स्प्रष्टुकामो मुनीन्द्रः

श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् ।

भूयोऽपि श्वासवातैर्हिरनुपतितो वीक्षितस्त्वत्कटाक्षै-

र्
मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ ८ ॥

 
दृष्ट्वेति। श्वासेनान्तः प्रविष्टो विष्टपौघं चतुर्दशभुवनात्मकं जगद् दृष्टवान्।
 

 
[^
]. 'को नाम दुःखदां मा' ख. पाठः

[^२]. 'र्थ: । आ' ख. पाठः
[^३]. 'या' क. पाठः
[^
]. 'ति यतः, अ' क. पाठः
 
6
 

[^५]. 'याप्रा' क. पाठः
[^६]. 'नवरणान' ख. पाठः
[^७].
'मुपग' ग. घ. ङ. च. पाठ:.
 
पाठ:.
 
२. 'र्थ: । आ' ख. पाठ:.
३. 'या' क.
५. 'यात्रा' क. पाठ:. ६. 'नवरणान' ख. पा
ठः.