This page has not been fully proofread.

अथ द्वादशस्कन्धपरिच्छेदः ।
 
मुक्तानां सच्चिदानन्दब्रह्मरूपतया स्थितिः ।
द्वादशस्था हरेर्लीला सम्प्रति प्रतिपाद्यते ॥
 
इदानीं मार्कण्डेयकथाप्रसङ्गेन तस्य तपसा विष्णुमाया शवदर्शनादिचरित्रक-
थनमिषेणाधिकारिणो योगत्रयेण ब्रह्म प्राप्तस्य ब्रह्ममात्रतयावस्थानं निरूप्यते-
मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा-
तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि ।
देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
योगोष्मनुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥ ५॥
 
मार्कण्डेय इति । स खलु पुनरपि चिरायु लब्धेऽपि त्वत्परो भगवद्भजन-
परोऽभूत् । अत्र हेतुः—अतुलसुखरतिरिति । निरतिशयसुखरूपे त्वद्भजने रतिः
श्रद्धा यस्य सः पुष्पभद्रातीरे हिमवदुत्तरपार्श्वे यस्यास्तीरे चित्रशिला नाम शिला
भद्रवटो नाम बटश्चास्ति, तस्याः पुष्पभद्रानामनद्यास्तीरे तपस्यन्नेव षड् मन्वन्त-
राणि एकसप्ततिचतुर्युगलक्षणानि निन्ये । देवेन्द्रः सप्तम इति मन्वन्तरेष्विन्द्रादीनां
व्यत्यासं दर्शयति । सप्तमे मन्वन्तरे यः सप्तमो देवेन्द्रः सोऽयं तपसा स्वधाम
जिघृक्षतीति भिया तं मार्कण्डेयं सुरयुवतिभिः अप्सरोभिः मरुता वासन्तेन मारुतेन
मन्मथेन च मोहयिष्यन् योगस्य तपस ऊष्मणा प्लष्यमाणैः दह्यमानेस्तैः सुरयुव-
त्यादिभिः न तु पुनरशकत् तं मोहयितुमशक्तोऽभूत् । त्वज्जनं त्वद्भक्तं को निर्ज-
येद् न कोऽपि । अहो मोहो देवेन्द्रस्यापीति भावः ॥ ५ ॥
 
प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्व
तुष्टया तोष्ट्र्यमानः स तु विविधवरैर्लोभितो नानुमेने ।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद् भक्तितृप्तान्तरात्मा
मायादुःखानभिज्ञस्तदपि मृगयते नूनमाचर्यहेतोः ॥ ६ ॥
 
१. 'पं त्वद्भजनमिति तत्रैव र' क. ग. पाठः,