2023-02-16 08:52:00 by ambuda-bot
This page has not been fully proofread.
नारायणीये
[स्कन्धः - १
।
ब्रह्मज्ञानमुत्पाद्याज्ञाननिवृत्तिद्वारा मोक्षमपि ददातीति । किञ्च, सद्यः अस्मिन् जन्म-
न्येव सिद्धिं फलं करोति, न ज्ञानमार्ग इव कालान्तरे । अयि विभो ! वातालया-
धीश्वर ! मे मम त्वदेकशरणस्य सा क्लेशरहिततयातिशुभा त्वत्पदप्रेमप्रौढिरसार्द्रता
तत्र पादाम्बुजयोः प्रेम्णः प्रौढिरतिशयोऽनपायिनी प्रीतिः स एव रसः, आस्वाद-
नीयत्वात्, तेनार्द्रता विलीनहृदयता तादृशी भक्तिरेव द्रुततरमेवास्तु, मम सेवामा
न्द्येऽपि मदेकशरणोऽयमिति धिया मह्यं तादृशीं भक्तिमेवानुगृहाणेत्यर्थः ॥ १० ॥
इति भगवद्रूपवर्णनं भगवद्भक्त्युत्पत्त्यादिवर्णनं च
द्वितीयं दशकम् ।
२२
अथ भक्तानां स्वरूपं वर्णयति
पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद ! कथयन्तो गुणकथाः ।
चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू-
नहं धन्यान् मन्ये समधिगतसर्वाभिलपितान् ॥ १ ॥
-
पठन्त इति । ये भक्ताः त्वाय खलु त्वयश्वर एव रमन्ते, नान्तरान्तरा विष
येष्वपि, तानमून् परं केवलम् अहं धन्यान् भाग्यवतो मन्ये । रमणप्रकारमाह-
पठन्त इति । ते नामानि पठन्तः उच्चैः कीर्तयन्तः, हे वरद ! भक्ताभीष्टप्रद ! कीर्त-
नद्वारा हृदि प्रविष्टं तव रूपं स्मरन्तः, अत एव प्रमदभरसिन्धौ आनन्दातिशयरूपे
समुद्रे निपतिताः तादृशानन्दानुभावैर्हर्षाश्रुरोमाञ्चादिभिश्चोपलक्षितौः, गुणकथाः
भक्तवात्सल्यादीन् गुणान् अत्यद्भुतानि चरितानि चान्योन्यं कथयन्तः, गृहाद्यनपे-
क्षैया चरन्तः । एवम्भूतानां मनः पुनस्त्वत्पादारविन्दाच्चालयितुं पारमेष्ठ्यादिपद-
मप्यकिञ्चित्कऱमित्याह – समधिगतेति । समधिगतानि सम्प्राप्तानि सर्वाण्यभिलषि-
तान्यभीष्टानि येषां, ते तथा । त्वत्पादारविन्दस्य सकलपुरुषार्थरूपतया तत् प्राप्ताः
पुनरपरं न काङ्क्षन्तीत्यर्थः ॥ १ ॥
१. 'ति । स' क. पाठः २. 'फलद' क. पाठ: ३. 'ता: । किञ्च, ते गु' क. पाठ:. ४. 'दिगु'
क. पाठ: ५. 'क्षतया' ख. पाठ:.