This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १
 

 
ब्रह्मज्ञानमुत्पाद्याज्ञाननिवृत्तिद्वारा मोक्षमपि ददातीति[^१] । किञ्च, सद्यः अस्मिन् जन्म-

न्येव सिद्धिं फलं करोति, न ज्ञानमार्ग इव कालान्तरे । अयि विभो ! वातालया-

धीश्वर ! मे मम त्वदेकशरणस्य सा क्लेशरहिततयातिशुभा त्वत्पदप्रेमप्रौढिरसार्द्रता
तत्र

तव
पादाम्बुजयोः प्रेम्णः प्रौढिरतिशयोऽनपायिनी प्रीतिः स एव रसः, आस्वाद-

नीयत्वात्, तेनार्द्रता विलीनहृदयता तादृशी भक्तिरेव द्रुततरमेवास्तु, मम सेवामा
-
न्द्येऽपि मदेकशरणोऽयमिति धिया मह्यं तादृशीं भक्तिमेवानुगृहाणेत्यर्थः ॥ १० ॥
 

 
इति भगवद्रूपवर्णनं भगवद्भक्त्युत्पत्त्यादिवर्णनं च

द्वितीयं दशकम् ।
 
२२
 

 
अथ भक्तानां स्वरूपं वर्णयति
 
--
 
पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः

स्मरन्तो रूपं ते वरद ! कथयन्तो गुणकथाः ।

चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू-

नहं धन्यान् मन्ये समधिगतसर्वाभिलपिषितान् ॥ १ ॥
 
-
 

 
पठन्त इति । ये भक्ताः त्वाय खलु त्वयिश्वर एव रमन्ते, नान्तरान्तरा विष
-
येष्वपि, तानमून् परं केवलम् अहं धन्यान् भाग्यवतो मन्ये । रमणप्रकारमाह-
-
पठन्त इति । ते नामानि पठन्तः उच्चैः कीर्तयन्तः, हे वरद ! भक्ताभीष्टप्र[^२]द ! कीर्त-

नद्वारा हृदि प्रविष्टं तव रूपं स्मरन्तः, अत एव प्रमदभरसिन्धौ आनन्दातिशयरूपे

समुद्रे निपतिताः तादृशानन्दानुभावैर्हर्षाश्रुरोमाञ्चादिभिश्चोपलक्षितौःताः[^३], गुणकथाः

भक्तवात्सल्यादी[^४]न् गुणान् अत्यद्भुतानि चरितानि चान्योन्यं कथयन्तः, गृहाद्यनपे-
क्षै

क्ष[^५]
या चरन्तः । एवम्भूतानां मनः पुनस्त्वत्पादारविन्दाच्चालयितुं पारमेष्ठ्यादिपद-

मप्यकिञ्चित्कमित्याह--समधिगतेति । समधिगतानि सम्प्राप्तानि सर्वाण्यभिलषि-

तान्यभीष्टानि येषां, ते तथा । त्वत्पादारविन्दस्य सकलपुरुषार्थरूपतया तत् प्राप्ताः

पुनरपरं न काङ्क्षन्तीत्यर्थः ॥ १ ॥
 

 
[^
]. 'ति । स' क. पाठः .
[^
]. 'फलद' क. पाठ: .
[^
]. 'ता: । किञ्च, ते गु' क. पाठ:.
[^
]. 'दिगु'
क. पाठ: .
[^
]. 'क्षतया' ख. पाठ:.