This page has not been fully proofread.

नारायणीये
 
मार्कण्डेयो हि पूर्व गणकनिगदितद्वादशाब्दायुरुच्चैः
सेवित्वा वत्सरं त्वां तव भटनिवर्द्रावयामास मृत्युम् ॥ ४ ॥
 
३५४
 

 
तं चैनमिति । तं पूर्वोक्तम् एन॑म् उपसंहृतं भक्तियोगं साध्यसाधनरूपं द्रढ
यितुं किञ्चिदारब्धं स्थिरीकर्तुम् अय! भगवन् ! मे मम आरोग्यं बाह्यान्तररोगरा-
हित्यम् आयुश्च साध्यम् । तत्र आयुरारोग्यनिमित्तमपि तव चरणं मया सेव्यम् ।
अहो दिष्ट्या साधनस्यापि सुखरूपत्वादहं कृतार्थो जातः । भेषजाय दुग्धमिव यथा
सन्निपातज्वरादिनिवृत्तथे पयः पातव्यं भवति, तथेत्यर्थः । नन्वायुषः प्रारब्धकर्म.
नियमितत्वात् तदधिकस्य लाभः प्रार्थनयाँपि न सम्भाव्यते इत्याशङ्कच मार्कण्डेय
दृष्टान्तेन परिहरति - मार्कण्डेय इति । ननु तस्य चिरायुष्वं प्राक् कल्पितं न तु
भगवत्सेवया लब्धमिति चेद्, नेत्याह—गणकेति । गणकेन जातककोविदेन निग-
दितम् उक्तं द्वादशाब्दायुः यस्य स पुनः 'अत्युत्कटैः पुण्यपॉपैरिहैव फलमश्नुत'
इति न्यायेन संवत्सरं त्वाम् उच्चैस्तीत्रेण समाधियोगेन सेवित्वा द्वादशाब्दान्ते
आत्मानं नेतुमागतं पाशदण्डहस्तं मृत्युम् अन्तकं तत्कालोपनतैः तव भटनिवहैः
विष्णुदूतैः द्रावयामास पलायनमकारयत् ॥ ४ ॥ ६४ ॥
 
इति नारायणीयस्तोत्रव्याख्यायां
 
भक्तप्रियाख्यायाम्
 
एकादशस्कन्धपरिच्छेदः ।
 
आदितः श्लोकसङ्ख्या ९९८.
 
'१. 'नं प्रस्तुतं द्र' ख. पाठ:.
 
[स्कन्धः-१६
 
२. 'या न' क. पाठः,