This page has been fully proofread once and needs a second look.

नारायणीये
 
मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः

सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ ४ ॥
 
३५४
 

 

 
तं चैनमिति । तं पूर्वोक्तम् एन॑न[^१]म् उपसंहृतं भक्तियोगं साध्यसाधनरूपं द्रढ
-
यितुं किञ्चिदारब्धं स्थिरीकर्तुम् अयि ! भगवन् ! मे मम आरोग्यं बाह्यान्तररोगरा-

हित्यम् आयुश्च साध्यम् । तत्र आयुरारोग्यनिमित्तमपि तव चरणं मया सेव्यम् ।

अहो दिष्ट्या साधनस्यापि सुखरूपत्वादहं कृतार्थो जातः । भेषजाय दुग्धमिव यथा

सन्निपातज्वरादिनिवृत्तथे पयः पातव्यं भवति, तथेत्यर्थः । नन्वायुषः प्रारब्धकर्म.
-
नियमितत्वात् तदधिकस्य लाभः प्रार्थनयाँया[^२]पि न सम्भाव्यते इत्याशङ्कचक्य मार्कण्डेय
-
दृष्टान्तेन परिहरति - --मार्कण्डेय इति । ननु तस्य चिरायुष्ट्वं प्राक् कल्पितं न तु

भगवत्सेवया लब्धमिति चेद्, नेत्याह--गणकेति । गणकेन जातककोविदेन निग-

दितम् उक्तं द्वादशाब्दायुः यस्य स पुनः 'अत्युत्कटैः पुण्यपॉपापैरिहैव फलमश्नुत'

इति न्यायेन संवत्सरं त्वाम् उच्चैस्तीत्व्रेण समाधियोगेन सेवित्वा द्वादशाब्दान्ते

आत्मानं नेतुमागतं पाशदण्डहस्तं मृत्युम् अन्तकं तत्कालोपनतैः तव भटनिवहैः

विष्णुदूतैः द्रावयामास पलायनमकारयत् ॥ ४ ॥ ६४ ॥
 

 
इति नारायणीयस्तोत्रव्याख्यायां
 

 
भक्तप्रियाख्यायाम्
 

 
एकादशस्कन्धपरिच्छेदः ।
 

 
आदितः श्लोकसङ्ख्या ९९८.
 
'

 
[^
]. 'नं प्रस्तुतं द्र' ख. पाठ:.
 
ठः
[स्कन्धः-१६
 
^]. 'या न' क. पाठः,