This page has not been fully proofread.

दशकम् - ९७]
 
उत्तमभक्तिप्रार्थनावर्णनम् ।
 
-
 
लादिष्वपि सममतिः सन् । अत्रोपायमाह – मुच्यमानेति । ऐकात्म्यज्ञानबलेन
मुच्यमाना अवमानस्पर्धासूयादयो देहाभिमानकृता दोषा यस्यैवम्भूतः सन् त्वाम्
अखिलभूतेषु सततं संपूजये । अथवा सममतित्वस्यावान्तरफलमाह – मुच्यमा
नेति । अवमानादिदोषनाश एवावान्तरफलम् ॥ २ ॥
 
एवं समदृष्टयोपासनस्यावधिमाह -
 
-
 
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्ति
कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् ।
त्वद्धर्मस्यास्य तावत् किमपि न भगवन् ! प्रस्तुतस्य प्रणाश-
स्तस्मात् सर्वात्मनैव प्रदिश मम विभो ! भक्तिमार्ग मनोज्ञम् ॥ ३ ॥
 
!
 
त्वद्भाव इति । एषु दस्युविप्रादिषु सर्वजन्तुष्वपि त्वद्भावः तवान्तर्यामिरू-
पेणावस्थानं यावत्कालपर्यन्तं न विशदं स्फुरति न सम्यगनुभवपदवीमवतरति,
तावैत्कालपर्यन्तम् एवं हि पूर्वोक्तप्रकारेणैव उपास्ति कुर्वन् त्यक्तलज्जश्च चण्डाला-
दिभ्योऽप्यन्तर्यामिरूपेणेश्वरोऽत्र वर्तत इति दृष्ट्या नमस्कारादि कुर्वन्नित्यर्थः। ततश्च
झटित्यैकात्म्यबोधे विकसति सर्वभूतेष्वेक एवात्मेति ज्ञानेऽनुभवरूपे सति अहं
त्वन्मयश्चरेयम् । हे भगवन् ! त्वद्धर्मस्य भागवतधर्मस्यास्य प्रस्तुतस्यारब्धस्य
तावद् आदित आरभ्य यावत्समाप्ति किमपि किञ्चिदपि प्रणाशो वैकल्यं न भवति
यथा यागादेः । तस्माद् अनुष्ठानादिसौकर्याद् मम मनोज्ञं समीचीनं भक्तिमार्ग
प्रेमलक्षणाया भक्तेः साधनरूपं भगवद्धमै सर्वात्मना तदपेक्षिताधिकाराङ्गादिसहितं
प्रदिश, मां तत्राधिकारिणं कुर्वित्यर्थः ॥ ३ ॥
 
आरोग्यहीनो न कुत्रापि कर्मण्यधिकारीति तदेव प्रार्थयते -
 
-
 
३.५३
 
तं चैनं भक्तियोगं द्रढयितुमयि ! मे साध्यमारोग्यमायु-
र्दिष्टया तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् ।
 
1. 'बत्पर्य ' ख. पाठः