2023-02-16 08:52:49 by ambuda-bot
This page has not been fully proofread.
नारायणीये
अथ गुणत्रयवृत्तिजयेन द्वन्द्वोपरमाय त्रैगुण्यविभागमाह-
त्रैगुण्याद् भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य-
ज्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।
त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वे
प्राहुनैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ १ ॥
३५२
[स्कन्धः - ११
।
६
त्रैगुण्यादिति । इह भुवने ज्ञानादि यद् वस्तु तत् सर्वे त्रिगुणमयत्वाद्
भिन्नरूपम् अत एव हीनमध्योत्तमं च भवति । तत्र सर्वभूतेष्वात्मन एकत्वज्ञानं
सात्त्विकं, पृथक्त्वेन ज्ञानं राजसं, बालादितुल्यं ज्ञानं तामसम् । श्रद्धा
चाध्यात्मिकधर्माधर्मविषयतया त्रिधा । कर्ता च वैराग्यरागाज्ञानभेदेन त्रिविधः ।
वनग्रामद्यूतसदनभेदेन वसतिरपि त्रिधा । आत्मानुभवसुखं विषयसुखं निद्राद्युत्थ-
सुखमिति तच्च त्रिविधम् । ईश्वरार्पितकाम्यनिषिद्धभेदेन कर्मापि त्रिविधम् ।
शुद्धमिन्द्रियप्रेष्ठमशुचि चेत्याहारद्रव्यमपि त्रिविधम् । एतत् सर्वमीश्वरविषयतया
निर्गुणं भवतीत्याह–त्वत्क्षेत्रेति । इह पुनस्त्वत्क्षेत्रत्वान्नषेवादि तु यत् तत् त्वत्परं
न फलपरं चेद् भवति, तर्हि तत् सबै नैर्गुण्यनिष्ठं निर्गुणं प्राहुः । तदनुभजनतो
मञ्जु झटिति मुक्तो भवेयम् ॥ १ ॥
सम्प्रति ' श्रीकृष्ण! त्वत्पदोपासनम् ' ( दश. ९०. श्लो. १) इति
प्रस्तुतं भागवतं धर्ममुपसंहरति द्वाभ्यां - -
त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थ
त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् ।
दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान-
स्पर्धास्यादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ २ ॥
त्वय्येवेति । सर्वा विहिता अविहिताश्च चेष्टाः कर्माणि त्वदर्थ कुर्व-
न्निति शेषः । त्वद्भक्तैः सम्प्रति सेव्यमानान् चरितचरान् तैरेव पूर्वं सेवितान् ।
अथवा त्वद्भक्तैः सेव्यमानान् देशान्, तैश्चरितचरान् पुण्यान् पुण्यकर्माणीति
विभज्य योजना । दस्यौ नीचे विप्रे उत्तमे मृगादिष्वपि । आदिशब्देन चण्डा-