This page has been fully proofread once and needs a second look.

नारायणीये
 
अथ गुणत्रयवृत्तिजयेन द्वन्द्वोपरमाय त्रैगुण्यविभागमाह-
-
 
त्रैगुण्याद् भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य-

ज्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।

त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वे
वं
प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ १ ॥
 
३५२
 
[स्कन्धः - ११
 

 

 

 
त्रैगुण्यादिति । इह भुवने ज्ञानादि यद् वस्तु तत् सर्वेवं त्रिगुणमयत्वाद्

भिन्नरूपम् अत एव हीनमध्योत्तमं च भवति । तत्र सर्वभूतेष्वात्मन एकत्वज्ञानं

सात्त्विकं, पृथक्त्वेन ज्ञानं राजसं, बालादितुल्यं ज्ञानं तामसम् । श्रद्धा

चाध्यात्मिकधर्माधर्मविषयतया त्रिधा । कर्ता च वैराग्यरागाज्ञानभेदेन त्रिविधः ।

वनग्रामद्यूतसदनभेदेन वसतिरपि त्रिधा । आत्मानुभवसुखं विषयसुखं निद्राद्युत्थ-

सुखमिति तच्च त्रिविधम् । ईश्वरार्पितकाम्यनिषिद्धभेदेन कर्मापि त्रिविधम् ।

शुद्धमिन्द्रियप्रेष्ठमशुचि चेत्याहारद्रव्यमपि त्रिविधम् । एतत् सर्वमीश्वरविषयतया

निर्गुणं भवतीत्याह--त्वत्क्षेत्रेति । इह पुनस्त्वत्क्षेत्रत्वान्नषेवादि तु यत् तत् त्वत्परं

न फलपरं चेद् भवति, तर्हि तत् सबैर्वं नैर्गुण्यनिष्ठं निर्गुणं प्राहुः । तदनुभजनतो
मञ्जु

मङ्क्षु
झटिति मुक्तो भवेयम् ॥ १ ॥
 

 
सम्प्रति ' श्रीकृष्ण! त्वत्पदोपासनम् ' ( दश. ९०. श्लो. १) इति

प्रस्तुतं भागवतं धर्ममुपसंहरति द्वाभ्यां - -
 

 
त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्
थं
त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् ।

दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान-

स्पर्धास्सूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ २ ॥
 

 
त्वय्येवेति । सर्वा विहिता अविहिताश्च चेष्टाः कर्माणि त्वदर्थं कुर्व-

न्निति शेषः । त्वद्भक्तैः सम्प्रति सेव्यमानान् चरितचरान् तैरेव पूर्वं सेवितान् ।

अथवा त्वद्भक्तैः सेव्यमानान् देशान्, तैश्चरितचरान् पुण्यान् पुण्यकर्माणीति

विभज्य योजना । दस्यौ नीचे विप्रे उत्तमे मृगादिष्वपि । आदिशब्देन चण्डा-