This page has not been fully proofread.

नारायणीये
 
त्वयानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-
रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ७ ॥
अतियत्नं बहुग्रन्थाभ्यासं
 
ज्ञानायैवेति । ज्ञानायैव केवलं ज्ञानमेव प्राप्तुम्
मुनिर्वेदव्यासः अपवदते पुराणेषु तत्र तत्र प्रतिषेधति । किं तु ब्रह्मतत्त्वं सिद्धा-
न्तसारमात्रं शृण्वन् युक्त्यानुसन्दधानः गाढम् अतिशयेन त्वत्पादे भक्तिं यः शरण-
मयति तस्य मुक्तिः कराये । जीवन्नेव मुक्त इति भावः । इह यमादिसहिते
त्वद्ध्यानेऽपि चित्तस्य चाञ्चल्याद्धेतोरसुकरता दुरनुष्ठेयता तुल्या । तदपि दुष्करमपि
ध्यानं त्वत्कृपया त्वच्चारुतया श्रीमूर्ते: सौन्दर्येण चाभ्यासादाशु वशयितुं वशीकर्ते
शक्यमित्यर्थः ॥ ७ ॥
 
३५०
 
निर्विण्ण: कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
 
जात श्रद्धोऽपि कामानयि भुवनपते ! नैव शक्नोमि हातुम् ।
तद् भूयो निश्चयेन त्वाय निहितमना दोषबुद्धया भज॑स्तान्
पुष्णीयां भक्तिमेव त्वयि हृदयगते मञ्जु नक्ष्यन्ति सङ्गाः ॥ ८ ॥
 
[स्कन्धः - ९९
 
निर्विण्ण इति । किञ्च, विषमतमे दुःखभूयिष्ठे कर्ममार्गे स्वर्गादौ निर्विण्णः
विरक्तः त्वत्कथादौ जातश्रद्धश्च यद्यपि भवति, तथापि कामान् काम्यमानान् पुत्रमित्र-
वित्तादीन् नैव हातुं शक्नोमि । तत् तस्माद् भूयः पुनः पुनः निश्चयेन त्वाय
निहितमना भूत्वा दोषबुद्ध्या तान् कामान् भजन् सेवमानः भक्तिमेव पुष्णीयाम् ।
एवं भक्त्या भजनेन त्वयि हृदयगते सङ्गा विषयश्रद्धाः मञ्जु झटिति नक्ष्यन्ति
नाशं गमिष्यन्ति ॥ ८ ॥
 
भगवद्भजने मनोनिग्रहस्यावश्यकत्वाद् भिक्षुपुरूरवसोनिदर्शनेन चित्तशान्ति
प्रार्थयते द्वाभ्यां -
 
कश्चित् क्लेशार्जितार्थक्षयविमलमतिनुद्यमानो जनौधैः
प्रागेवं प्राह विप्रो न खलु मम जनः कालकर्मग्रहा वा ।
 
१. 'नू भ' ख. पाठ: