This page has been fully proofread once and needs a second look.

नारायणीये
 
त्व
त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-

रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ७ ॥
अतियत्नं बहुग्रन्थाभ्यासं
 

 
ज्ञानायैवेति । ज्ञानायैव केवलं ज्ञानमेव प्राप्तुम्
अतियत्नं बहुग्रन्थाभ्यासं
मुनिर्वेदव्यासः अपवदते पुराणेषु तत्र तत्र प्रतिषेधति । किं तु ब्रह्मतत्त्वं सिद्धा-

न्तसारमात्रं शृण्वन् युक्त्यानुसन्दधानः गाढम् अतिशयेन त्वत्पादे भक्तिं यः शरण-

मयति तस्य मुक्तिः करायेग्रे । जीवन्नेव मुक्त इति भावः । इह यमादिसहिते

त्वद्ध्यानेऽपि चित्तस्य चाञ्चल्याद्धेतोरसुकरता दुरनुष्ठेयता तुल्या । तदपि दुष्करमपि

ध्यानं त्वत्कृपया त्वच्चारुतया श्रीमूर्ते: सौन्दर्येण चाभ्यासादाशु वशयितुं वशीकर्ते
तुं
शक्यमित्यर्थः ॥ ७ ॥
 
३५०
 

 
निर्विण्ण: कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
 

जात श्रद्धोऽपि कामानयि भुवनपते ! नैव शक्नोमि हातुम् ।

तद् भूयो निश्चयेन त्वायवयि निहितमना दोषबुद्धया भज॑ध्या भजंस्तान्

पुष्णीयां भक्तिमेव त्वयि हृदयगते मञ्जु नङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ ८ ॥
 
[स्कन्धः - ९९
 

 
निर्विण्ण इति । किञ्च, विषमतमे दुःखभूयिष्ठे कर्ममार्गे स्वर्गादौ निर्विण्णः

विरक्तः त्वत्कथादौ जातश्रद्धश्च यद्यपि भवति, तथापि कामान् काम्यमानान् पुत्रमित्र-

वित्तादीन् नैव हातुं शक्नोमि । तत् तस्माद् भूयः पुनः पुनः निश्चयेन त्वाय
वयि
निहितमना भूत्वा दोषबुद्ध्या तान् कामान् भजन्[^१] सेवमानः भक्तिमेव पुष्णीयाम् ।

एवं भक्त्या भजनेन त्वयि हृदयगते सङ्गा विषयश्रद्धाः मञ्जुङ्क्षु झटिति नङ्क्ष्यन्ति

नाशं गमिष्यन्ति ॥ ८ ॥
 

 
भगवद्भजने मनोनिग्रहस्यावश्यकत्वाद् भिक्षुपुरूरवसोर्निदर्शनेन चित्तशान्ति
तिं
प्रार्थयते द्वाभ्यां -
 
-
 
कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः

प्रागेवं प्राह विप्रो न खलु मम जनः कालकर्मग्रहा वा ।
 

 
[^
]. 'नून् भ' ख. पाठ:
 
ठः