This page has been fully proofread once and needs a second look.

कर्मज्ञानभक्तिमार्गाधिकारिवर्णनम् ।
 
३४९
 
एतच्च त्रितयं मनुष्यशरीरसाध्यमिति तत्प्राप्तौ न कालक्षेपः कर्तव्य इत्यभिप्रा-
दशकम्-९६]
 

येणाह-
-
 
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते

तस्मात् तत्रैव जन्म स्पृहयति भगवन् ! नाकगो नारको वा ।

आविष्टं मां तु दैवाद् भवजलनिधिपोतायिते मर्त्यदे
 
हे
त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ ५ ॥
 

 
ज्ञानमिति। त्वद्भक्ततां वा लघु अनायासेन । दैवात् सुकृतेन भवजलनि
धौ
पोतवदाचरिते आविष्टं प्रविष्टं तु तरणोपायविधुरं मां गुरुमुपदेष्टारं कर्णधारं ना-

विकं कृत्वा त्वं वातालयेशः स्वयमनुगुणवातवदाचरन् तारयेथाः पारं नय ॥ ५ ॥
 

 
तत्र साधनेषु भक्तिरेव सुगममार्ग इत्याह --
 

 
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः

क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।

दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग-

स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ॥ ६ ॥
 

 
अव्यक्तमिति । केवलज्ञाने लुब्धाः केवलं ज्ञानलुब्धा वा श्रुतिभिरूप -

निषद्भिः नयैः मीमांसोक्तयुक्तिभिरपि अव्यक्तं ब्रह्म मार्गयन्तः विचारयन्तः अतीव

क्लिश्यन्ते । बहुतरजनुषामन्त एव सिद्धिं फलमाप्नुवन्ति । कर्मयोगोऽपि च

परमफले परमपुरुषार्थे मोक्षे दूरस्थः कालान्तर एव फलप्रदः क्लेशरूपश्च । पितृ-

लोकसत्यलोकावाप्त्यादिरूपेण त्ववान्तरफलेन दूरस्थः । भक्तियोगस्त्वामूलात्

श्रवणकीर्तनादिक्रमेणारम्भात् प्रभृत्येव हृद्यः त्वरितं भवत्प्रापकश्च । अयि भगवन् !

मम स एव वर्धताम् ॥ ६ ॥
 

 
उक्तमर्थेथं सदाचारप्रमाणेन द्रढयति
-
 

 
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन्
 

गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।