This page has been fully proofread once and needs a second look.

३४८
 
नारायणीये
 
[स्कन्धः - ११
 
-
 
-
 
अनेन प्रकारेण लभन्ते प्राप्नुवन्ति । ब्रह्मणस्तटस्थलक्षणमाह - --विश्वमूलमिति । जग
<fix>-</fix>
ज्
जन्मादिकारणमित्यर्थः । तदुपपादयति - --अखिल पदार्थेप्ष्विति । भिन्नेषु स्वभावतः

पृथग्भूतेषु अखिलपदार्थेषु स्वसृष्टेषु कार्येषु अभिन्नं कारणरूपेणैकत्वेन

स्थितं, कटककुण्डलादौ सुवर्णवत् । ननु तद्वत्सच्चिदानन्दं ब्रह्म स्वसृष्टेषु कार्येषु

न दृश्यत इति चेद् दृश्यत एवेत्याह--सत्तेति । येयं भिन्नेषु घटपटादिषु घटः

सन् पटः सन्नित्येकरूपा सत्ता प्रतीयते, या च भिन्नेष्वभिन्ना घटोऽयं पटोऽयमि-

ति स्फूर्तिज्ञानमेकरूपं प्रतीयते, यच्च भिन्नेषु स्रक्कन्दनादिषु अभिन्नं प्रियत्वम्

आनुकूल्यं सुखमिति यावत्, तानि सत्तास्फूर्तियित्वानि आत्मा स्वरूपं

यस्य तदेव ब्रह्मेत्यर्थः । अ[^१]त्र च भिन्नेष्वभिन्नमित्यनेन कार्यकारणानन्य-

त्वोक्तेराद्वितीयत्वमप्युक्तम् । अतः सत्तास्फूर्तिप्रियत्वात्मकमिति च सच्चिदानन्दा-

द्वयं ब्रह्मेति स्वरूपलक्षणमपि दर्शितम् । निर्मूलं निष्कारणं नित्यम् । अतस्तत्

प्राप्तानां न पुनरावृत्तिरित्यपि सूचितम् ॥ ३ ॥
 
"
 

 
ननु भक्त्यैव कृतार्था इत्युक्तं प्राक् 'सन्ति श्रेयांसि ' ( दश. ९५. श्लो. ३)इत्या-

दिना । किमिदानीं कर्मज्ञानयोगोपादानभित्याशङ्क्याधिकारिभेदादित्याह
--
 
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद्

निर्विण्णानामशेषे[^२] विषय इह भवेद् ज्ञानयोगेऽधिकारः ।

सक्तानां कर्मयोगस्त्वयि हि[^३] विनिहितो ये तु नात्यन्तसक्ता

नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ४ ॥
 

 
ज्ञानमिति । भवत्प्रापकं मोक्षसाधनम् । तत्र तेषु त्रिषु मध्ये ।

अशेषे विषये इहामुत्र सक्कस्रक्चन्दनादौ अमृतादौ इह शरीरे च निर्विण्णानां

विरक्तानां ज्ञानयोगेऽधिकारो भवेत् । सक्तानामनिर्विण्णानां हि त्वयि विनिहितः

ईश्वरे समर्पितः कर्मयोगः। ये तु मध्यस्थाः त्वयि ईश्वरे धृतरसा यदृच्छया

त्वत्कथादौ जातश्रद्धाश्चेत्यर्थः । तेषाममीषां भक्तियोगः ॥ ४ ॥
 

 
[^
]. 'त' ख. पाठ:ठः
[^२]
. २. 'पेषे खलु बिविषयरसे ज्ञा' क. पाठ:. ठः
[^
]. 'तु' क. पाठः,