2023-02-16 08:52:48 by ambuda-bot
This page has not been fully proofread.
दशकम् - ९९]
भगवाद्वभूतिवर्णनम् ।
३४७
त्वं हीति । हे उरुमहिमन् ! विश्वमूर्ते ! त्वं हि साक्षात् परं ब्रह्मैवं ।
सर्वत्र षष्ठीसप्तम्यौ निर्धारणे । अक्षराणां मध्येऽकारः, मन्त्रेषु तारः प्रणवः, त्वमिति
योजनीयम् । मुनिष्विति । ब्रह्मर्षिषु भृगुः देवर्षिषु नारदः ॥ १ ॥
ब्रह्मण्यानां बलिस्त्वं ऋतुषु च जपयज्ञोऽसि वीरेषु पार्थो
भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।
नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्व त्वमेव
त्वं जीवस्त्वं प्रधानं यदह भवते तन्न किञ्चित् प्रपञ्चे ॥ २ ॥
ब्रह्मण्यानामिति । ब्रह्मण्यानां ब्राह्मणभक्तानाम् । बलिनां तेजस्विनामिति
सम्बन्धे षष्ठी । यतस्त्वद्विभूतेरन्तो नास्ति अत एतदवधारयामि । विकसदति-
शयं स्फुटप्रतीयमानातिशययुक्तं यद् वस्तु तत् सर्वं त्वमेव । किञ्च, त्वं जीवः, त्वं
प्रधानं, प्रकृतिपुरुषौ त्वमेव । अतः प्रकृतिपुरुषात्मके इह अस्मिन् प्रपञ्चे तत् तादृशं
किञ्चिदपि नास्ति, यद् भवते त्वद्व्यतिरेकेण प्रतीयते । त्वमेवेदं सर्वमित्यर्थः ॥२॥
१
उक्तोपासनादावनधिकारिणामीश्वरार्पणेन स्वधर्मानुष्ठानाद् वैराग्यद्वारा मुक्तिरि..
त्याह-
धर्म वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते ।
सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं
निर्मूलं विश्वमूलं परममहमिति त्वाबोधं विशुद्धम् ॥ ३॥
धर्ममिति । वर्णानामाश्रमाणां च पृथक् पृथक् श्रुतिपथविहितं नित्यनैमि-
त्तिकादिरूपं भक्त्या त्वत्परत्वेन ईश्वरार्पिततया कुर्वन्तः शनैरन्तर्विरागे विकसति
प्रादुर्भूते सति सन्त्यजन्तः विहितानि कर्माणि विधिना त्यजन्तः परमहंसा भूत्वा विशुद्धं
विषयाकारशून्यं त्वद्विबोधं त्वत्स्वरूपभूतं विबोधं परं ब्रह्म परममहं परं ब्रह्मैवाहम् इति
'णे । मु' ख. पाठः, ३. 'के अ' ख. पाठः,
१. 'व। अ' क. ग. पाठ:. २.
४. 'तिवि' क. पाठ: ५. 'ह्मैवा' ख. पाठः,