This page has been fully proofread once and needs a second look.

दशकम् - ९९]
 
भगवाद्वभूतिवर्णनम् ।
 
३४७
 
त्वं हीति । हे उरुमहिमन् ! विश्वमूर्ते ! त्वं हि साक्षात् परं ब्रह्मैवं ।
व[^१] ।
सर्वत्र षष्ठीसप्तम्यौ निर्धारणे[^२] । अक्षराणां मध्येऽकारः, मन्त्रेषु तारः प्रणवः, त्वमिति

योजनीयम् । मुनिष्विति । ब्रह्मर्षिषु भृगुः देवर्षिषु नारदः ॥ १ ॥
 

 
ब्रह्मण्यानां बलिस्त्वं ऋतुषु च जपयज्ञोऽसि वीरेषु पार्थो

भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।

नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
 

त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित् प्रपञ्चे ॥ २ ॥
 

 
ब्रह्मण्यानामिति । ब्रह्मण्यानां ब्राह्मणभक्तानाम् । बलिनां तेजस्विनामिति

सम्बन्धे षष्ठी । यतस्त्वद्विभूतेरन्तो नास्ति अत एतदवधारयामि । विकसदति-

शयं स्फुटप्रतीयमानातिशययुक्तं यद् वस्तु तत् सर्वं त्वमेव । किञ्च, त्वं जीवः, त्वं

प्रधानं, प्रकृतिपुरुषौ त्वमेव । अतः प्रकृतिपुरुषात्मके[^३] इह अस्मिन् प्रपञ्चे तत् तादृशं

किञ्चिदपि नास्ति, यद् भवदृते त्वद्व्यतिरेकेण प्रतीयते । त्वमेवेदं सर्वमित्यर्थः ॥२॥
 

 

 
उक्तोपासनादावनधिकारिणामीश्वरार्पणेन स्वधर्मानुष्ठानाद् वैराग्यद्वारा मुक्तिरि..
 
-
त्याह-
-
 
धर्म वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या

कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते ।

सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं

निर्मूलं विश्वमूलं परममहमिति त्वावद्विबोधं विशुद्धम् ॥ ३॥
 

 
धर्ममिति । वर्णानामाश्रमाणां च पृथक् पृथक् श्रुति[^४]पथविहितं नित्यनैमि-

त्तिकादिरूपं भक्त्या त्वत्परत्वेन ईश्वरार्पिततया कुर्वन्तः शनैरन्तर्विरागे विकसति

प्रादुर्भूते सति सन्त्यजन्तः विहितानि कर्माणि विधिना त्यजन्तः परमहंसा भूत्वा विशुद्धं

विषयाकारशून्यं त्वद्विबोधं त्वत्स्वरूपभूतं विबोधं परं ब्रह्म[^५] परममहं परं ब्रह्मैवाहम् इति
 

 
[^१]. 'व। अ' क. ग. पाठः
[^२].
'णे । मु' ख. पाठः,
[^
]. 'के अ' ख. पाठः,
 

[^४]
. 'व। अतिवि' क. ग. पाठ:. २.
 
४. 'तिवि' क. पाठ:
ठः
[^
]. 'ह्मैवा' ख. पाठः,