2023-02-16 08:52:48 by ambuda-bot
This page has not been fully proofread.
LAPORA
३४६
[स्कन्धः - १९
सुस्थिरं तु चित्तं परमसुखचिदद्वैतरूपे सच्चिदानन्दस्वरूपे ब्रह्मणि वितन्वन्
ब्रह्माकारं कुर्वन् अन्यद् ध्यातृध्येयविभागादि नो चिन्तयेयम् । मुहुः यावज्जीवं
ब्रह्मैक्यं पुनः पुनः इति अनेन प्रकारेण समुपारूढयोगः भगवदुपासनशीलः
भवेयम् ॥ ९॥
नारायणीये
इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता
दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे ! ।
त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं
त्वामेवानन्दपूर्ण पवनपुरपते ! पाहि मां सर्वतापात् ॥ १० ॥
इत्थमिति । इत्थम् उक्तप्रकारेण त्वद्धयानमेव योगः पुरुषार्थस्योपायः
तस्मिन् सति ताः सत्त्वोत्कर्षजाः अष्टौ संसिद्धयः अष्टैश्वर्याणि दूरश्रवण-दर्शन-
त्रिकालज्ञत्वादिक्षुद्रसिद्धयोऽपि अहमहमिकया सम्पतेयुः । इदमखिलं त्वत्सम्प्राप्तौ
बिलम्बाबहमित्यहं नाद्रिये । किं तु अहम् आनन्दपूर्ण मोक्षरूपं त्वामेव कामये ।
मां सर्वतापात् संसारात् पाहि । पुनरप्यष्टैश्वर्यादिभिः संसारार्णवे निक्षिप्य मा
मां भ्रामयेति भावः ॥ १० ॥
इति भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनं
पञ्चनवतितमं दशकम् ।
अथोक्तध्यान॑योग्यतासिद्ध्यै विश्वमूर्तीशोपासनाय भगवद्विभूर्ति निरूपयति-
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार-
स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
महादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
नागानामस्यैनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ! ॥ १ ॥
पं. 'नाधिकारिता' ख. पाठः, २. 'तीर्नि' ख. ग. पाठ:
'प्य' क. पाठ..