This page has been fully proofread once and needs a second look.

LAPORA
 
३४६
 
[स्कन्धः - १९
 
सुस्थिरं तु चित्तं परमसुखचिदद्वैतरूपे सच्चिदानन्दस्वरूपे ब्रह्मणि वितन्वन्

ब्रह्माकारं कुर्वन् अन्यद् ध्यातृध्येयविभागादि नो चिन्तयेयम् । मुहुः यावज्जीवं

ब्रह्मैक्यं पुनः पुनः इति अनेन प्रकारेण समुपारूढयोगः भगवदुपासनशीलः

भवेयम् ॥ ९॥
 
नारायणीये
 

 
इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता

दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे ! ।

त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं

त्वामेवानन्दपूर्णं पवनपुरपते ! पाहि मां सर्वतापात् ॥ १० ॥
 

 
इत्थमिति । इत्थम् उक्तप्रकारेण त्वद्ध्यानमेव योगः पुरुषार्थस्योपायः

तस्मिन् सति ताः सत्त्वोत्कर्षजाः अष्टौ संसिद्धयः अष्टैश्वर्याणि दूरश्रवण-दर्शन-

त्रिकालज्ञत्वादिक्षुद्रसिद्धयोऽपि अहमहमिकया सम्पतेयुः । इदमखिलं त्वत्सम्प्राप्तौ
बि

वि
लम्बाहमित्यहं नाद्रिये । किं तु अहम् आनन्दपूर्णं मोक्षरूपं त्वामेव कामये ।

मां सर्वतापात् संसारात् पाहि । पुनरप्यष्टैश्वर्यादिभिः संसारार्णवे निक्षिप्य मा

मां भ्रामयेति भावः ॥ १० ॥
 

 
इति भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनं

 
पञ्चनवतितमं दशकम् ।
 

 
अथोक्तध्यान॑न[^१]योग्यतासिद्ध्यै विश्वमूर्तीशोपासनाय भगवद्विभूर्तितिं[^२] निरूपयति-
-
 
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार-

स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
महा

प्रह्ला
दो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो

नागानामस्यैय[^३]नन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ! ॥ १ ॥
 
पं

 
[^१]
. 'नाधिकारिता' ख. पाठः,
[^
]. 'तीर्नि' ख. ग. पाठ:
 
ठः
[^३]
'प्य' क. पाठ..
 
ठः