2023-02-16 08:52:48 by ambuda-bot
This page has not been fully proofread.
दशकम् – ९५] भक्त्या विशुद्धचित्तस्यैव
भगवत्स्वरूपध्यानयोग्यतावर्णनम्
। ३४५
ध्यानमिति । समतनुः समकायशिरोग्रीवः सुखबद्धासनः । नास्ति
स्वस्तिकादिनियमः । अक्ष्णोर्निमीलने मनोलयः, उन्मीलने मनोविक्षेपः, तदुभया-
भावाय मुकुलीकरणेऽक्ष्णोर्नासिकाग्रन्यस्तता स्वयमेव स्यात् । पूरकरेचककुम्भ-
कभेदैः प्राणायामैः जितः कफादिदोषनिरसनेन शोधितः पवनपथः वायुसञ्चरण-
स्थानं नाडीविवरं येन स तथा चित्तपद्मं हृदयाम्बुजम् अवाञ्चम् अधोमुखम्
ऊर्ध्वाग्रं भावयित्वा तत्कर्णिकायां रविशशिशिखिन: उपरिष्टाद् उत्तरोत्तरं
संविचिन्त्य तत्रस्थं वह्निमध्यस्थम् ॥ ७ ॥
आनील श्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास-
स्यन्दा कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् ।
श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं
चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ ८ ॥
आनीलेति । अतिशयेन नीलाः लक्ष्णाः श्लिष्टाः केशा यस्य, ज्वलिते
मकराकारे सती कुण्डले यस्य, भन्दहासस्य स्य दो द्रवः तेन आर्द्रं निग्धं, कौस्तुभ
श्रीभिः परिगतया व्याप्तया बनमालया उरुहारैः हारपटलैः अभिरामं, वक्षोदक्षिणभागे
श्रीवत्साख्योऽङ्को यस्य, शोभना दीर्घपीवरा बाहवो यस्य, मृदु लसत् शोभमान-
मुदरं यस्य, काञ्चनच्छायचेलं परिहितपीताम्बरं, चारू स्निग्धौ मांसलावूरू
यस्य, तं भवन्तं भावये चिन्तयामि ॥ ८ ॥
अथ क्रमात् समाधिभूमिकारोहणप्रकारमाह-
सर्वाङ्गेष्वङ्ग ! रङ्गत्कुतुकमंतिमुहुर्धारयन्नीश ! चित्तं
तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।
तत्रालीनं तु चेतः परमसुखचिद्वैतरूपे वितन्व-
नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥ ९ ॥
सर्वाङ्गेष्विति । रङ्गत्कुतुकं प्राप्तकौतुकं चित्तं सर्वाङ्गेषु अतिमुहुः पुनः पुनः
धारयन् तत्र अवयवेष्वपि मध्ये एकत्र एकस्मिन्नवयवे युञ्जे । तत् कुत्र, वदनसरसिजे।
मन्दहास इति वदनसरसिजविशेषणम् । मन्दः हासो यस्मिन् तत्र श्रीमुखे आलीनं