This page has been fully proofread once and needs a second look.

दशकम् – ९५] भक्त्या विशुद्धचित्तस्यैव
 
भगवत्स्वरूपध्यानयोग्यतावर्णनम्
 
। ३४५
 
ध्यानमिति । समतनुः समकायशिरोग्रीवः सुखबद्धासनः । नास्ति

स्वस्तिकादिनियमः । अक्ष्णोर्निमीलने मनोलयः, उन्मीलने मनोविक्षेपः, तदुभया-

भावाय मुकुलीकरणेऽक्ष्णोर्नासिकाग्रन्यस्तता स्वयमेव स्यात् । पूरकरेचककुम्भ-

कभेदैः प्राणायामैः जितः कफादिदोषनिरसनेन शोधितः पवनपथः वायुसञ्चरण-

स्थानं नाडीविवरं येन स तथा चित्तपद्मं हृदयाम्बुजम् अवाञ्चम् अधोमुखम्

ऊर्ध्वाग्रं भावयित्वा तत्कर्णिकायां रविशशिशिखिन: उपरिष्टाद् उत्तरोत्तरं

संविचिन्त्य तत्रस्थं वह्निमध्यस्थम् ॥ ७ ॥
 

 
आनील श्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास-

स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् ।

श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं

चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ ८ ॥
 

 
आनीलेति । अतिशयेन नीलाः लक्ष्णाः श्लिष्टाः केशा यस्य, ज्वलिते

मकराकारे सती कुण्डले यस्य, न्दहासस्य स्य न्दो द्रवः तेन आर्द्रं स्निग्धं, कौस्तुभ
-
श्रीभिः परिगतया व्याप्तया नमालया उरुहारैः हारपटलैः अभिरामं, वक्षोदक्षिणभागे

श्रीवत्साख्योऽङ्को यस्य, शोभना दीर्घपीवरा बाहवो यस्य, मृदु लसत् शोभमान-

मुदरं यस्य, काञ्चनच्छायचेलं परिहितपीताम्बरं, चारू स्निग्धौ मांसलावूरू

यस्य, तं भवन्तं भावये चिन्तयामि ॥ ८ ॥
 

 
अथ क्रमात् समाधिभूमिकारोहणप्रकारमाह-
-
 
सर्वाङ्गेष्वङ्ग ! रङ्गत्कुतुकमंतिमुहुर्धारयन्नीश ! चित्तं

तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।

तत्रालीनं तु चेतः परमसुखचिद्वैतरूपे वितन्व-

न्
नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥ ९ ॥
 

 
सर्वाङ्गेष्विति । रङ्गत्कुतुकं प्राप्तकौतुकं चित्तं सर्वाङ्गेषु अतिमुहुः पुनः पुनः

धारयन् तत्र अवयवेष्वपि मध्ये एकत्र एकस्मिन्नवयवे युञ्जे । तत् कुत्र, वदनसरसिजे।

मन्दहास इति वदनसरसिजविशेषणम् । मन्दः हासो यस्मिन् तत्र श्रीमुखे आलीनं