This page has not been fully proofread.

दशकम् - २]
 
भगवद्भक्त्युत्पत्त्यादिवर्णनम् ।
 
२१
 
निर्यन्मला निर्यन्ति निर्गच्छन्ति रागद्वेषमोहमदमात्सर्यरूपाणि मनोमलानि येषां त,
तथा, तादृशाः केचिद् बोधे ज्ञानमार्गे भक्तिमार्गे वाप्युचिततामायान्ति अधिकारं
प्राप्नुवन्ति । यदि सम्यग्विरक्तास्तर्हि ज्ञानयोगेऽधिकारिणः, यदि वेषद्विरक्तास्तर्हि
भक्तिमार्गेऽधिकारिणो भवन्ति । तदुक्तं ' न निर्विणो नातिसक्तो भक्तियोगोऽस्य
सिद्धिद ' इति । तावता तावन्मात्रोपयोगिना कर्मणा भक्तिमार्गप्रस्थितानामस्माकं
किं प्रयोजनं, न किमपीत्यर्थः । अन्ये पुनश्चित्तीर्द्रत्वं रागादिराहित्यम् ऋते विना
विरक्तम्मन्याः केचित् तर्कपथे वेदान्तशास्त्रे परं क्लिष्ट्वा क्लेशैकभाजनानि भूत्वा हे
विभो ! तब ब्रह्माख्यं वपुः स्वरूपं विचिन्त्य वेदान्तार्थविचारोपायभूतैर्विविधैर्यायै-
र्विचार्य बहुभिरुपासनाविधिभिश्चोपास्य बहुभिर्जन्मान्तरैः सिध्यन्ति फलं साघ
यन्ति ॥ ९ ॥
 
तर्हि भाक्तयोगेऽपि किमुक्तदोषाः सन्ति, नेत्याह---
त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं
सिध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।
सद्यः सिद्धिकरी जयत्ययि विभो ! सैवास्तु मे त्वत्पद-
प्रेमौरिसाता द्रुततरं वातालयाधीश्वर ! ॥ १० ॥
 
-
 
त्वदिति । त्वद्भक्तिस्तु तथा न भवतीत्यर्थः । किन्तु जयति कर्मज्ञानमयाद्
योगद्वयादुत्कृष्टा भवति । उत्कर्ष मेवाह – कथारसेति । त्वत्कथायां यः शृङ्गारा-
दिरूपो रसः, अथवा कथाश्रद्धा, स एवामृतझरी मधुद्रवः तस्मिन् नितरां मज्ज-
नेन स्वयं सिध्यन्तीति । अयमर्थः - त्वत्कथाः शृण्वतां पुनःपुनः शुश्रूषा जायते ।
ततश्च विविधविषयतृष्णापैति । ततश्चित्तशुद्धिद्वारा भक्तिः स्वयमेवोत्पद्यत इति।
ननूत्पन्नापि भक्तिरज्ञानक्कृतं बन्धं न निवर्तयति, ज्ञानस्यैवाज्ञाननाशकत्वादित्याश-
ङ्कयाह – बिमलेति। अक्लेशतः क्लेशं विनैव विगतं नष्टं मलं शरीराद्यहंममाभिमा-
नरूपमज्ञानं यस्मात् प्रबोधात् स विमलप्रबोधो ब्रह्मज्ञानं, स एव पदवी मार्ग
उपायो ब्रह्मप्राप्तेः, तां तन्वती कुर्वतीति । अयमाशयः - भक्तर्हि बन्धमोक्षाख्य-
फलजनने त्वत्स्वरूपब्रह्मज्ञानमवान्तरव्यापारमात्रमिति सा भक्तिरेव भगवत्यक्लेशेनैव
 
-
 
१. 'त्तस्यार्द्र' ख. पाठ:. २. 'त्सेवायां' क. पाठ:.
 
३. 'कल्पितं' क. पाठ: