2023-02-16 08:52:48 by ambuda-bot
This page has not been fully proofread.
दशकम् – ९५ भक्तथा विशुद्धचित्तस्यैव
भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४३
अनित्याश्च । त्वं तु श्रेयसां मध्ये भक्तिम् एकां केवलाम् अव्यभिचारिणीं वा
महिततमाम् अतिशयेन पूजनीयां सख्ये उद्धवाय आचख्याथ आख्यातवान् ।
विषयजुषाम् इन्द्रियाणि प्रीणयतां त्वद्भक्त्या य आनन्दस्तत्तुल्यः सम्मदः सुखं
केन वा स्याद्, न केनापीत्यर्थः ॥ ३ ॥
तदेवाह—
त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः
सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।
सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीव हुद्या
नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ ४ ॥
त्वद्भक्त्येति । त्वद्भक्त्या प्रेमलक्षणया तुष्टबुद्धेः भक्त्यैवालं किमन्यैरिति
जातालंबुद्धेः अत एव विच्युताशस्य विषयतृष्णारहितस्य अत एव इह
सर्वत्र सुखं चरतः आशाः दिशः सर्वाः सौख्यमय्यः स्युः । अनुभूयमानं सर्वे
सुखात्मकमेवेति भावः । यथा सलिलकुहरं महाह्रदः, तद्स्य मत्स्यादेः सर्वा
दिशस्तोयैकमय्यो भवन्ति एवं त्वद्भक्त्यानन्दनिमनस्य भक्तस्यापि सर्वा दिशः
सौख्यमय्य एवेत्यर्थः । किञ्च, सोऽयं भक्तः खलु इन्द्रादिलोकं हृद्यौ मनोहराः
योगसिद्धीः उपासनैफलभूताः परकायप्रवेशाष्टैश्वर्यदूरश्रवणदर्शनाद्याः नाकाङ्क्षतौ-
त्येतदास्ताम्, असौ मोक्षंसौख्येऽप्यनीहो निराग्रहः । किं तर्हि दुष्करतादृष्टेः, न ।
स्वयमनुपतिते भक्तिमहिम्ना स्वयमेव प्रादुर्भूते ॥ ४ ॥
"
आस्तान्तावदुत्तमभक्तकथा यतः प्राकृता अपि भक्ताः कृतार्था इत्याह -
त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो-
र्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।
सप्तार्चिदीपितार्चिर्दहति किल यथा भूरिदारूप्रपञ्च
त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः केन्द्रियाणाम् ॥ ५ ॥
त्वद्भक्त इति । इन्द्रियाशान्तेः अवशीकृतेन्द्रियत्वाद्धेतोः विषयरसैर्बाध्यमानः
आकृष्यमाणोऽपि तैर्नाभिजय्यः न वशीकर्तुं शक्यः । अत्र हेतुः – दुर्बलैरिति ।
-
१. 'द्या यो' ख. पाठः
२. 'ना' ख. पाठः