2023-02-16 08:52:48 by ambuda-bot
This page has not been fully proofread.
नारायणीये.
ननु तर्हि सत्त्ववृद्धिरेव प्रार्थ्यतां, किं भक्त्येत्याशङ्कायामाह-
सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् !
भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।
चित्तं तावद् गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोडुं
तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसरूपी न्यगादीत् ॥ २ ॥
३४२
-
सत्त्वोन्मेषादिति । सत्त्वस्य उन्मेषो वृद्धिः, ततः खलु विषयरसे विष-
यास्वादे दोषबोधे सत्यपि भूयोऽप्येषु विषयेषु प्रवृत्तिर्दुर्निवारा भवति । तत्र
हेतुः – सतमसि रजसि प्रोद्धत इति । रजस्तमोभ्यां सत्त्वस्याभिभवादिति भावः ।
यावदेवं, तावद् गुणा विषयाश्चित्तं च मिथो ग्रथितं भवति । चित्तं हि रागादि-
बशाद् विषयेषु प्रविशति । ते चानुभूता विषया वासनारूपेण चित्ते च प्रविश-
न्ति । ततो मिथो ग्रथितं भवतीत्यर्थः । तानि सर्वाणि गुणचित्तरजस्तमांसि
रोद्धुं त्यक्तुं तुर्ये अवस्थात्रयातीते तत्साक्षिणि त्वाय ईश्वरे भक्तिरेव शरणम् ।
हंसरूपीति । क्षीरनौरविवेकचतुरो हंसः, तद्वदात्मानात्मविवेकचतुरतया परमहंसः
परिव्राट्, तद्रूपी भूत्वा भवान् ब्रह्मणः पुरतः सनकादिभ्यो न्यगादीद् उपदिदेश ॥
ननु किं भक्तितुल्यं श्रेयस्साधनमस्ति, नेत्याह-
सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि
क्षुद्रानन्दाच सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः ।
त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ ३ ॥
सन्तीति । श्रेयांसि श्रेयस्साधनानि कर्मिणां रागादिना कर्माधिकारि-
णां रुचिभिदया अधिकारभेदेन निर्मितानि बृहस्पतिव्यासपतञ्जलिप्रभृतिभि
राचार्यैः प्रोक्तानि । तेभ्यः श्रेयस्साधनेभ्यः बहुविधाः स्वर्गादिरूपाः गतयः
फलानि भवेयुः । किन्तु ताः क्षुद्रानन्दाः दुःखमिश्रतया स्वल्पसुखाः सान्ताः
१. 'तं' क. ग. पाठ:. २. 'मुखैरा' क. पाठः.