This page has been fully proofread once and needs a second look.

नारायणीये.
 
ननु तर्हि सत्त्ववृद्धिरेव प्रार्थ्यतां, किं भक्त्येत्याशङ्कायामाह-
-
 
सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् !

भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।

चित्तं तावद् गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोडुं
द्धुं
तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसरूपी न्यगादीत् ॥ २ ॥
 
३४२
 
-
 

 
सत्त्वोन्मेषादिति । सत्त्वस्य उन्मेषो वृद्धिः, ततः खलु विषयरसे विष-

यास्वादे दोषबोधे सत्यपि भूयोऽप्येषु विषयेषु प्रवृत्तिर्दुर्निवारा भवति । तत्र

हेतुः--सतमसि रजसि प्रोद्धत इति । रजस्तमोभ्यां सत्त्वस्याभिभवादिति भावः ।

यावदेवं, तावद् गुणा विषयाश्चित्तं च मिथो ग्रथितं भवति । चित्तं हि रागादि-

बशाद् विषयेषु प्रविशति । ते चानुभूता विषया वासनारूपेण चि[^१]त्ते च प्रविश-

न्ति । ततो मिथो ग्रथितं भवतीत्यर्थः । तानि सर्वाणि गुणचित्तरजस्तमांसि

रोद्धुं त्यक्तुं तुर्ये अवस्थात्रयातीते तत्साक्षिणि त्वाय ईश्वरे भक्तिरेव शरणम् ।

हंसरूपीति । क्षीरनौनीरविवेकचतुरो हंसः, तद्वदात्मानात्मविवेकचतुरतया परमहंसः

परिव्राट्, तद्रूपी भूत्वा भवान् ब्रह्मणः पुरतः सनकादिभ्यो न्यगादीद् उपदिदेश ॥
 

 
ननु किं भक्तितुल्यं श्रेयस्साधनमस्ति, नेत्याह-
-
 
सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि

क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः ।

त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां

त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ ३ ॥
 

 
सन्तीति । श्रेयांसि श्रेयस्साधनानि कर्मिणां रागादिना कर्माधिकारि-

णां रुचिभिदया अधिकारभेदेन निर्मितानि बृहस्पतिव्यासपतञ्जलिप्रभृ[^२]तिभि
-
राचार्यैः प्रोक्तानि । तेभ्यः श्रेयस्साधनेभ्यः बहुविधाः स्वर्गादिरूपाः गतयः

फलानि भवेयुः । किन्तु ताः क्षुद्रानन्दाः दुःखमिश्रतया स्वल्पसुखाः सान्ताः
 

 
[^
]. 'त्तं' क. ग. पाठ:. ठः
[^
]. 'मुखैरा' क. पाठः.