This page has not been fully proofread.

दशकम् – ९९] भक्तथा विशुद्धचित्तस्यैव
 
भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४१
 
ननु भक्त्या जीवेश्वरैक्ये सति संसारनिवृत्तिरित्युक्तम् । तदनुपपन्नं, तयोर्भि-
न्नत्वे सत्यैक्यायोगाद्, अभिन्नत्वे तयोर्जीवस्य संसारानुपपत्तेरित्याशङ्कच ईश्वरस्यैव
मायामयशरीरसम्बन्धात् संसारित्वं तदपाये स्वस्वरूपेणावस्थानं च भवतीति
परिहरति -
 
आदौ हैरण्यगर्भी तनुमविकलजीवात्मिकामास्थितस्त्वं
जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! ।
तत्रोवृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन-
च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ १ ॥
 

 

 
आदाविति । आदौ ब्रह्मप्रलयावसाने तब सिसृक्षायां सत्यां त्वं हिरण्य-
गर्भस्येयं हैरण्यगर्भी, तां तनुमास्थितः तदभिमान्यभूः । कीदृशम् अविकल
जीवात्मिकां । अत्र जीवशब्देन सूक्ष्मशरीरमुच्यते । सूक्ष्मशरीरसमष्टिरूपा-
मित्यर्थः । किमर्थमित्यपेक्षायां तद्धेतुत्वेन सम्बोधयति — विश्वयोने ! इति । वि-
श्वस्य विराट्च्छरीरस्य प्रपञ्चस्य योनिः कारणम् । सूक्ष्मशरीराद्धि स्थूलशरीरो-
त्पत्तिः। एवञ्च जगत्सृष्ट्यर्थं हिरण्यगर्भो ब्रह्माभूरिति भावः । एवम्भूतस्त्वमेव तथ्यष्टि-
रूपं जीवत्वं प्राप्य मायागुणानां मायाकार्याणां महदहङ्कारभूतेन्द्रियप्राणपञ्चक-
रूपाणां तत्त्वानां गणेन, तत्सङ्घातात्मकेन शरीरेणेत्यर्थः खचितः सम्बद्धो
वर्तसे त्वमेव शरीराभिमानितया संसारी भवसि । अतो मम त्वद्रूपत्वात् त्वदै-
क्यम् युज्यत इति भावः। एवं संसारिणो जीवस्य रजस्तमोवृद्धौ संसारानिवृत्तिः।
सत्त्ववृद्धौ विशेषमाह — तत्र त्विति । तत्र मायागुणेषु तु सत्त्ववृद्धौ विशेषोऽस्ती-
त्यर्थः । सात्त्विकपदार्थसेवया उद्द्द्धेन अत एव भक्तिभावं गतेन भक्तिरूपेण
परिणतेनेत्यर्थः । गुणयुगलं रजस्तमश्च तत्कार्यभूतं शरीरादिकं च छित्वा माया-
मयत्वेन ज्ञानमुत्पाद्यापाकृत्य कृतकार्यतया साधनरूपं सत्त्वं च हित्वा पुनः कार्य-
कारणाव्यवधानाद् अनुपहितः परिपूर्णस्त्वमेवाहं वर्तिताहे त्वदेकीभावमनुभविता-
१.
 
स्मीति भावः ॥ १ ॥