This page has been fully proofread once and needs a second look.

दशकम् – ९९] भक्तथा विशुद्धचित्तस्यैव
 
भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४१
 
ननु भक्त्या जीवेश्वरैक्ये सति संसारनिवृत्तिरित्युक्तम् । तदनुपपन्नं, तयोर्भि-

न्नत्वे सत्यैक्यायोगाद्, अभिन्नत्वे तयोर्जीवस्य संसारानुपपत्तेरित्याशङ्कचक्य ईश्वरस्यैव

मायामयशरीरसम्बन्धात् संसारित्वं तदपाये स्वस्वरूपेणावस्थानं च भवतीति

परिहरति -
 
--
 
आदौ हैरण्यगर्भी तनुमविकलजीवात्मिकामास्थितस्त्वं

जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! ।

तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन-

च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ १ ॥
 

 

 

 
आदाविति । आदौ ब्रह्मप्रलयावसाने त सिसृक्षायां सत्यां त्वं हिरण्य-

गर्भस्येयं हैरण्यगर्भी, तां तनुमास्थितः तदभिमान्यभूः । कीदृशम् अविकल
-
जीवात्मिकां । अत्र जीवशब्देन सूक्ष्मशरीरमुच्यते । सूक्ष्मशरीरसमष्टिरूपा-

मित्यर्थः । किमर्थमित्यपेक्षायां तद्धेतुत्वेन सम्बोधयति--विश्वयोने ! इति । वि-

श्वस्य विराट्च्छरीरस्य प्रपञ्चस्य योनिः कारणम् । सूक्ष्मशरीराद्धि स्थूलशरीरो-

त्पत्तिः। एवञ्च जगत्सृष्ट्यर्थं हिरण्यगर्भो ब्रह्माभूरिति भावः । एवम्भूतस्त्वमेव तथ्द्व्यष्टि-

रूपं जीवत्वं प्राप्य मायागुणानां मायाकार्याणां महदहङ्कारभूतेन्द्रियप्राणपञ्चक-

रूपाणां तत्त्वानां गणेन, तत्सङ्घातात्मकेन शरीरेणेत्यर्थः खचितः सम्बद्धो

वर्तसे त्वमेव शरीराभिमानितया संसारी भवसि । अतो मम त्वद्रूपत्वात् त्वदै-

क्यम् युज्यत इति भावः। एवं संसारिणो जीवस्य रजस्तमोवृद्धौ संसारानिवृत्तिः।

सत्त्ववृद्धौ विशेषमाह--तत्र त्विति । तत्र मायागुणेषु तु सत्त्ववृद्धौ विशेषोऽस्ती-

त्यर्थः । सात्त्विकपदार्थसेवया उद्द्वृद्धेन अत एव भक्तिभावं गतेन भक्तिरूपेण

परिणतेनेत्यर्थः । गुणयुगलं रजस्तमश्च तत्कार्यभूतं शरीरादिकं च छित्वा माया-

मयत्वेन ज्ञानमुत्पाद्यापाकृत्य कृतकार्यतया साधनरूपं सत्त्वं च हित्वा पुनः कार्य-

कारणाव्यवधानाद् अनुपहितः परिपूर्णस्त्वमेवाहं वर्तिताहे त्वदेकीभावमनुभविता-
१.
 

स्मीति भावः ॥ १ ॥