This page has not been fully proofread.

३४०
 
नारायणीये
 
[स्कन्धः - १९
 
विशेषणत्वात् पुँल्लिङ्गत्वम् । प्रकृष्टा समग्रोपचारयुक्ता पूजा प्रपूजा, नतिर्नमस्कारः,
नुतिः स्तवनं, गुणैः सत्त्वादिभिः कृतानां सृष्ट्यादिकर्मणामनुकीर्तिः, आसु
आदरोऽपि मे भूयात् ॥ ८ ॥
 
यद्यल्लभ्येत तत्तत् तव समुपहृतं देव ! दासोऽस्मि तेऽहं
त्वद्नेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां
त्वत्प्रेमाईत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ ९ ॥
 
यद्यदिति । समुपहृतं समर्पितम् । त्वद्वेहेषु क्षेत्रादिषु उन्मार्जनं रजसोऽपा-
करणम् आद्यं यस्य सेचनपुष्पोपहारादेः निर्मायं दाम्भिकतारहितं कर्म मम
मुहुर्भवतु । पूजाधिष्ठानान्याह—सूर्येति । आदिशब्देन गवादि गृह्यते । एष्वधिष्ठा-
नेषु लसितचतुर्बाहुमाराधये सौरसूक्तहविरातिथ्यविषयभोगयवसादिभिः पूजयामि ।
त्वत्प्रेम्णा आर्द्रा द्रुतहृदयः तस्य भावस्तत्त्वं, तद्रूपो भक्तियोगो मम सततम-
भिष्यन्दतां त्वद्विषये प्रवाहरूपेण प्रवर्ततामित्यर्थः ॥ ९ ॥
 
ऐक्यं ते दानहोमत्रतनियमतपस्साङ्ख्ययोगैर्दुरापं
 
त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् ।
भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
 
तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण! वातालयेश! ॥१०॥
 
ऐक्यमिति। दानादिभिर्योगिनामपि दुरापं ते तव ऐक्यं मोक्षं गोप्य-
स्त्वत्सङ्गेनैव प्रापुः किल । अतस्ताः सुकृतितमाः । आनन्दसान्द्रम् आनन्दैक-
रसम् । अन्येषु भूयस्सु बहुप्वपि भक्तेषु उद्धवादिषु सत्स्वपि त्वम् आसां गोपिकानां
भक्तिमेव बहुमनुषे । तत् तस्माद् मे त्वयि प्रेमलक्षणां भक्तिमेव द्रढय अनपा-
यिनीं कुरु ॥ १० ॥
 
इति तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, वन्धमोक्षस्वरूपवर्णनम्, अभक्तनिन्दापूर्वकं भक्तिप्रार्थनावर्णनं च
चतुर्नवतितमं दशकम् ।
 
१. 'ति । आत्मान्तर्यामी । आ' क. ग. पाठ: