This page has been fully proofread once and needs a second look.

३४०
 
नारायणीये
 
[स्कन्धः - १९
 
विशेषणत्वात् पुँल्लिङ्गत्वम् । प्रकृष्टा समग्रोपचारयुक्ता पूजा प्रपूजा, नतिर्नमस्कारः,

नुतिः स्तवनं, गुणैः सत्त्वादिभिः कृतानां सृष्ट्यादिकर्मणामनुकीर्तिः, आसु

आदरोऽपि मे भूयात् ॥ ८ ॥
 

 
यद्यल्लभ्येत तत्तत् तव समुपहृतं देव ! दासोऽस्मि तेऽहं
त्वद्ने

त्वद्गे
होन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।

सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां

त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ ९ ॥
 

 
यद्यदिति । समुपहृतं समर्पितम् । त्वद्वेगेहेषु क्षेत्रादिषु उन्मार्जनं रजसोऽपा-

करणम् आद्यं यस्य सेचनपुष्पोपहारादेः निर्मायं दाम्भिकतारहितं कर्म मम

मुहुर्भवतु । पूजाधिष्ठानान्याह--सूर्येति[^१] । आदिशब्देन गवादि गृह्यते । एष्वधिष्ठा-

नेषु लसितचतुर्बाहुमाराधये सौरसूक्तहविरातिथ्यविषयभोगयवसादिभिः पूजयामि ।

त्वत्प्रेम्णा आर्द्रा द्रुतहृदयः, तस्य भावस्तत्त्वं, तद्रूपो भक्तियोगो मम सततम-

भिष्यन्दतां त्वद्विषये प्रवाहरूपेण प्रवर्ततामित्यर्थः ॥ ९ ॥
 

 
ऐक्यं ते दानहोमत्व्रतनियमतपस्साङ्ख्ययोगैर्दुरापं
 

त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् ।

भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
 

तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण! वातालयेश! ॥१०॥
 

 
ऐक्यमिति। दानादिभिर्योगिनामपि दुरापं ते तव ऐक्यं मोक्षं गोप्य-

स्त्वत्सङ्गेनैव प्रापुः किल । अतस्ताः सुकृतितमाः । आनन्दसान्द्रम् आनन्दैक-

रसम् । अन्येषु भूयस्सु बहुप्ष्वपि भक्तेषु उद्धवादिषु सत्स्वपि त्वम् आसां गोपिकानां

भक्तिमेव बहुमनुषे । तत् तस्माद् मे त्वयि प्रेमलक्षणां भक्तिमेव द्रढय अनपा-

यिनीं कुरु ॥ १० ॥
 

 
इति तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, न्धमोक्षस्वरूपवर्णनम्, अभक्तनिन्दापूर्वकं भक्तिप्रार्थनावर्णनं च

 
चतुर्नवतितमं दशकम् ।
 

 
[^
]. 'ति । आत्मान्तर्यामी । आ' क. ग. पाठ:
 
ठः