This page has not been fully proofread.

अभक्तनिन्दापूर्वकं भक्तिप्रार्थनावर्णनम् ।
 
अभक्तानां शास्त्रश्रमोऽपि पाण्डित्यमात्रफल इत्याह -
 
दशकम् - ९४]
 
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्
कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां विभ्रते निष्प्रसूतिम् ।
यस्यां विश्वाभिरामाः सकलमलहरा दिव्यलीलावताराः
सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ ७ ॥
 
३३९
 
शब्दब्रह्मणीति । मीमांसाधुपाङ्गोपबृंहिते साङ्गे वेदे प्रयतितमनसः कृत-
श्रमा अपि इह केचित् तत्प्रधानप्रतिपाद्यं त्वां परं ब्रह्म न जानन्ति नोपासनादि
कुर्वन्ति । कष्टम् । ते वन्ध्यश्रमाः व्यर्थपरिश्रमाः । ते चिरतरं दीर्घकालं निष्प्रसूतिं
भक्ति ज्ञानफलोत्पादनरहितां गां वाचं जल्पवितण्डाख्यां बिभ्रते । अथवा प्रसवहीन-
तया निर्दोहां गां धेनुं बिभ्रते पुष्णन्ति । अहं तु यस्यां वाचि विश्वान् सर्वजनान्
अभिरमयन्तीति विश्वाभिरामाः सकलानां मलानां दुरितानां रागादीनां च निवर्तकाः
दिव्याः शुद्धसत्त्वमयाः श्रीरामकृष्णाद्यवतारा न निगदिताः, सच्चित्सान्द्रं रूपं परं
ब्रह्म न निगदितं न प्रतिपादितं, तां सगुणनिर्गुणेश्वरप्रतिपादनविधुरां वाचं न
म्रियासं न व्यवहरेयम् ॥ ७ ॥
 
अथ सत्सङ्गमद्वारा भक्ति प्रार्थयते त्रिभिः-
-
 
यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम-
नेवश्चानन्यथावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् ! ।
त्वल्लिङ्गानां त्वदङ्ङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादि-
र्भुयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥८॥
 
य इति । यः यत्स्वरूप : यावान् यादृङ्महिमा यादृशः यद्धर्मो वा
त्वामति किमपि नैवावगच्छामि । हे भूमन् ! ईश्वर ! एवञ्च सति अनन्यभावः
त्वदेकचित्तः सन् त्वदनुभजनं त्वत्सेवामेवाद्रिये । कथमज्ञात्वा मद्भजनमित्यत
आह—चैद्यवैरिन्निति । शिशुपालवैरिन् ! गोपालबालकतया श्रुतत्वांदेतावदव-
गच्छामीति भावः । त्वल्लिङ्गानां त्वत्प्रतिमानां त्वदप्रिप्रिया भक्तजनाः, तेषां
सदसां सभानाम् । दर्शनस्पर्शनादिरिति नमस्कारादि गृह्यते । यद्वा सत्सङ्ग