This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - ११
 
याथार्थ्यादिति । परमार्थतस्त्वन्मयस्यै ईश्वरादभिन्नस्यैव मम जीवस्य न
वस्तुतो बन्धमोक्षौ, तथापि तव ईश्वरस्य माथाविद्यातनुभ्यां विद्याविद्यारूपशक्तिद्वयेन
बिराचतौ तौ बन्धमोक्षौ । अविद्यया बन्धो विद्यया च मोक्ष इति भावः । तौ च
स्वप्नबोधोपमौ यथा स्वप्नद्रष्टुः स्वप्नदृष्टेन देहेन बन्धः प्रबुध्य च तन्मोक्षः,
तद्वद् अविदुषो देहबन्धः विदुषो मोक्षश्च । तथाच स्वप्नवन्मायामयत्वेऽपि बन्धस्य
दुःखहेतुत्वाद् ज्ञानेन बन्धच्छेदः प्रार्थनीय इति भावः । तदेव बद्धमुक्तयोर्वैलक्षण्य-
माह - बद्ध इति । बद्धे संसारिणि जीवद्विमुक्तिं गतवति जीवन्मुक्ते च तावत्
तावती वक्ष्यमाणरूपा । एको बद्धः देह एव द्रुमः, द्रुमवद नित्यत्वादिधर्मत्वात्,
तत्स्थः तस्मादपृथग्भूतः सन् विषयरसफलं विषयानुभवरूपं कर्मफलं भुङ्क्ते
अपरः जीवन्मुक्तः न विषयरसफलं भुङ्क्ते । तथापि ज्ञानशक्तया निर्व्यथात्मा
पोडारहितः ॥ ५ ॥
 
ननु तर्हि जीवन्मुक्तत्वमेव प्रार्थ्यतामित्याशङ्कय तदनधिकारमाकलय्य भक्ति
प्रार्थयते-
१३८
 
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे
तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् ।
तन्मे विष्णो ! कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं
येन स्यां मञ्जु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥ ६ ॥
 

 
G
 
जीवन्मुक्तत्वमिति । बचसा किं फलं, न तत्प्राप्तिः स्यात् । अशुद्ध-
बुद्धेः रागादिदुष्टान्तःकरणस्य तद् जीवन्मुक्तित्वं दूरे नाम । तर्ह्यन्तःकरणशुद्ध्यु-
पाया अन्वेष्टव्या इत्याशङ्कय किमुपायान्तरेण भक्तिरेव लघुरुपाय इत्याह
चेति । न च भक्तितोऽन्यद् मनसः शोधनं शुद्धयुपायः तीर्थस्नानादि लघु
अतिशीघ्रम् अप्रयत्नं च भवति । तत् तस्मात् त्वयि भक्तिभारम् अनपायिनीं भक्ति
कृषष्ठिाः । कृतम् अनुष्ठितं सकलानां शरीरतत्सम्बन्धिनां प्रार्पणं मन्त्रपुरस्सर
समर्पणं यस्मिन् भक्तिभारे । किञ्चिद्गुरुवचनेति भक्तौ सत्यां स्वयमेव
ज्ञानोत्पत्तिरिति दर्शयति । मङ्क्षु शीघ्रं गुरुवचनमात्रानिमित्तेन मिलता सञ्जातेन
त्वत्प्रबोधेन ब्रह्मज्ञानेन त्वदात्मा मुक्तो भवामीत्यर्थः ॥ ६ ॥
 
१. 'स्येश्वरस्यै' क. ग. पाठः, २. 'धत्व' व्याख्यासम्मतः पाठः