This page has not been fully proofread.

दशकम् - ९४]
 
तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् ।
 
३३७
 
स्वर्गादिफलानि प्राप्ताः मत्ताः विमाने स्त्रीभिः सह नन्दनादिषु क्रीडन्तः
प्रमत्ताः कर्मक्षयेण पतने अधःपतने प्रसजति सति अनन्तान् विषादान् दुःखानि
यान्ति ॥ ३ ॥
 
ननु वेदोक्तोपासनादिकर्मभिः सत्यलोकं प्राप्ताः क्वेशरहिता ब्रह्मणा सह मोदन्त
 
इत्याशङ्कायामाह-
-
 
त्वल्लोकादन्यलोकः क नु भयरहितो यत् परार्धद्वयान्ते
त्वद्भीतः सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ ! ।
एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां
तन्मे त्वं छिन्धि बन्धं वरद ! कृपणवन्धो ! कृपापूरसिन्धो ! ॥४॥
 
-
 
त्वल्लोकादिति । त्वल्लोकाद् बैकुण्ठाद् अन्यलोकः सत्यलोकादिः भयरहितो
विनाशभयरहितः क्व नु नास्तीत्यर्थः । अत्र हेतुः – परार्धद्वयम् अन्तोऽवधिर्यस्य
स तथा तादृशे सत्यलोके स पद्मभूरपि त्वत् कालस्वरूपादीश्वरादू भीतैः
अतो न सुखवसतिः सुखरूपा विनाशभयरहिता वसतिर्वासो यस्य स तथा ।
पद्मभूरिति ब्रह्मण उत्पत्तिविनाशौ द्योतयति । एवम्भावे एवं सति विद्याकर्मभ्यां
प्राप्तैश्वर्यस्य ब्रह्मणोऽपि दुःखात्यन्तिकनिवृत्त्यभावे सति अधर्मैरार्जितं बहुतमो दुरितं
येषां तेषां नारकाणां नरकँपतितानां संसारिणां क्लेशहाने का कथा । तत् तस्माद्
बन्धं शरीराद्यहम्ममाभिमानं छिन्धि, मोक्षं प्रयच्छेत्यर्थः ॥ ४ ॥
 
ननु जीवो नाम नेश्वरादन्यः । कुतस्तस्य बन्धमोक्षावित्याशङ्कय
परिहरति-
याथार्थ्यात् त्वन्मयस्यैव हि ममन विभो ! वस्तुतो बन्धमोक्षौ
मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।
बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको
भुङ्क्ते देहद्रुमस्थो विषयफॅलरसान् नापरो निर्व्यथात्मा ॥५॥
 
१. 'तत्वाद् न' ख. पाठ: २. 'वं स' ख. पाठः, ३. 'के' क. ग. पाठ:.
४. 'रसफलं ना' व्याख्यानुसारी पाठः,