This page has been fully proofread once and needs a second look.

दशकम् - ९४]
 
तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् ।
 
३३७
 
स्वर्गादिफलानि प्राप्ताः मत्ताः विमाने स्त्रीभिः सह नन्दनादिषु क्रीडन्तः

प्रमत्ताः कर्मक्षयेण पतने अधःपतने प्रसजति सति अनन्तान् विषादान् दुःखानि

यान्ति ॥ ३ ॥
 

 
ननु वेदोक्तोपासनादिकर्मभिः सत्यलोकं प्राप्ताः क्वेलेशरहिता ब्रह्मणा सह मोदन्त
 

इत्याशङ्कायामाह-
-
 

 
त्वल्लोकादन्यलोकः क्व नु भयरहितो यत् परार्धद्वयान्ते

त्वद्भीतः सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ ! ।

एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां

तन्मे त्वं छिन्धि बन्धं वरद ! कृपणन्धो ! कृपापूरसिन्धो ! ॥४॥
 
-
 

 
त्वल्लोकादिति । त्वल्लोकाद् बैकुण्ठाद् अन्यलोकः सत्यलोकादिः भयरहितो

विनाशभयरहितः क्व नु नास्तीत्यर्थः । अत्र हेतुः--परार्धद्वयम् अन्तोऽवधिर्यस्य

स तथा तादृशे सत्यलोके स पद्मभूरपि त्वत् कालस्वरूपादीश्वरादूद् भीतैः
तः[^१]
अतो न सुखवसतिः सुखरूपा विनाशभयरहिता वसतिर्वासो यस्य स तथा ।

पद्मभूरिति ब्रह्मण उत्पत्तिविनाशौ द्योतयति । एव[^२]म्भावे एवं सति विद्याकर्मभ्यां

प्राप्तैश्वर्यस्य ब्रह्मणोऽपि दुःखात्यन्तिकनिवृत्त्यभावे सति अधर्मैरार्जितं बहुतमो दुरितं

येषां तेषां नारकाणां नरकँक[^३]पतितानां संसारिणां क्लेशहाने का कथा । तत् तस्माद्

बन्धं शरीराद्यहम्ममाभिमानं छिन्धि, मोक्षं प्रयच्छेत्यर्थः ॥ ४ ॥
 

 
ननु जीवो नाम नेश्वरादन्यः । कुतस्तस्य बन्धमोक्षावित्याशङ्कय
क्य
परिहरति-
-
 
याथार्थ्यात् त्वन्मयस्यैव हि मम न विभो ! वस्तुतो बन्धमोक्षौ

मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।

बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको

भुङ्क्ते देहद्रुमस्थो विषयफॅफ[^४]लरसान् नापरो निर्व्यथात्मा ॥५॥
 

 
[^
]. 'तत्वाद् न' ख. पाठ: ठः
[^
]. 'वं स' ख. पाठः,
[^
]. 'के' क. ग. पाठ:.
ठः
[^
]. 'रसफलं ना' व्याख्यानुसारी पाठः,