This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः- १९.
 
राणः
रणिः, तयोरावेधः प्रवचनरूपेण मथनदण्डेन संघट्टनं, तेनोद्भासितेन प्रकाशितेन

स्फुटतरपरिबोधः सम्यग्ज्ञानं तद्रूपेणाग्निना कर्मालीवासनाः सजातीयकर्मोत्पादकाः
[^१]
संस्काराः, तत्कृता तनुभुवनभ्रान्तिः शरीरादिप्रपञ्चविषयमज्ञानं, तद्रूपे कान्तारपूरे

वनसमूहे दह्यमाने सति दाह्याभावेन इन्धननाशेन विद्या ब्रह्मज्ञानं तच्चाज्ञान-

तत्कार्यनाशे सति स्वयमपि तदन्तःपातितया नश्यतीत्यग्निसाम्यात्, तद्रूपे

शिखिानखिनि अग्नौ च विरते कार्यकारणाव्यवधानात् त्वन्मयी खल्ववस्था त्वद्रूपेणैवा-

वस्थानम्। सच्चिदानन्दरूपो भवतीति भावः ॥ २ ॥
 
,
 

 
एवं श्लोकद्वयेन सर्वतो विरक्तस्य तत्त्वज्ञानेन संसारदु: खोच्छेदः परमानन्दा-

वाप्तिश्चेत्युक्तम् । तदेव दृढीकर्तुतुं मतान्तरं निरस्यति
 
-
 
--
 
एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो

नैकान्तात्यन्तिकास्ते कृषिवदगदपाषाड्गुण्यपद्षट्कर्मयोगाः ।

दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता
 

मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान् विषादान् ॥ ३ ॥
 

 
एवमिति । ननु नानाविधैर्मणिमन्त्रौषधरसायनप्रयोगैः षण्णयैश्चतुरुपायैः

स्वर्गादीष्टसाधनैर्ज्योतिष्टोमादिभिरध्यापनादिभिश्च कर्मभिरेव देहिनां निखिलक्लेश-

हानेः सम्भवात् किमर्थमतिदुष्करं निवृत्तिमार्गाश्रयणमित्याशङ्कायामाह--नैकान्तेति ।

अगदाः औषधान्यायुर्वेदोक्ता आरोग्याद्युपायाः, षड्गुणा एव षाड्गुण्यं दण्डनी-

त्युक्ताः सन्धिविग्रहादयोऽर्थार्जनोपायाः, षट्कर्माणि अध्ययनाध्यापनादीनि,

वेदोक्ता योगा उपायाः ये, ते नैकान्ताः न कृत्स्नदुःखनिवर्तकाः दुःखामिश्रसुखहेतु-

त्वाद्, न चात्यन्तिकाः न दुःखपुनरावृत्तिनिवर्तकाः अनित्यफलत्वात्, कृषिवत् ।

नन्विह पुत्रमित्रधनधान्यारोग्यादिपरिपन्थिनिरासफलकानि परत्र स्वर्गादिसाधना-

न्यपि वैदिककर्माणि विद्यन्ते, तत्राह--दुर्वैकल्यैरिति । निगमपथाः वेदमार्गाः दुर्वै-

कल्यैः अपरिहरणीयैर्द्रव्यकर्मकालकर्तृदोषरूपैर्वैगुण्यैः अकल्या अशक्यानुष्ठाना अ-

पि केवलं नैकान्तात्यन्तिका एवेत्यपिशब्दार्थः । किञ्च, कथञ्चिन्निर्वैकल्यास्तत्फलानि
 

 
[^
]. 'कर्ससं' क. पाठ:
 
ठः