This page has not been fully proofread.

दशकम् - ९४]
 
तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् ।
 
नानात्वस्थौल्यकार्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते
वहेर्दारुमभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ १ ॥
 
३३५
 
शुद्धा इति । निष्कामधर्मैः फलकामनामन्तरेणानुष्ठितैर्वर्णाश्रमधर्मैः शुद्धाः
रागादिदोषरहिताः, शमदमादिसाधनचतुष्टयसम्पन्ना इति यावत् । प्रवरस्य
वेदतदर्थनिष्णाततया श्रेष्ठस्य गुरोः अज्ञाननिरोधनचतुरस्य गिरा प्रवचनात्मि-
कया ते तवेश्वरस्य तद् निष्कलस्वरूपम् आवेदयन्ते अवगच्छन्ति । कीदृशं, देहेन्द्रि-
यादिभ्यो व्यपगतं व्यतिरिक्तम् अत एव शुद्धं मायातत्कार्योपरागरहितं
परं परब्रह्माख्यम् अखिलं व्याप्तं सर्वाश्रयं सर्वानुस्यूतं च । नन्वैखिलव्याप्तत्वं
कृशोऽहं स्थूलोऽहमित्यादिप्रतीतेः प्रतीतिविरुद्धमित्याशङ्कयाह – नानात्वेति ।
तवात्मनो नानात्वादि तु गुणजवपुस्सङ्गतः मायामयशरीरोपाधित्वेन अध्यासितं
कल्पितम् । अत औपाधिकत्वेन नानात्वादयो नात्मधर्मा इत्यर्थः । अत्रानुरूपं
दृष्टान्तमाह — वह्नेरिति। दारुप्रभेदेषु काष्ठेषु स्थितस्य वह्नेर्यथा महदणुतादि। मह-
त्त्वमणुत्वं दीप्तत्वमुत्पन्नत्वं शान्तत्वं नष्टत्वम् । आदिशब्देन नानात्वादि गृह्यते । एते
दारुधर्मा अपि यथाग्नेर्दारुणोऽविविक्तत्वादग्निधर्मतया प्रतीयन्ते, तथात्मनः शरी-
रस्यापि विविच्य ज्ञानाभावान्नानात्वादयो जरामरणादयोऽप्यात्मधर्मा इव प्रतीयन्ते
न परमार्थत इति भावः ॥ १ ॥
 

 
एतच्च ज्ञानमाचार्याल्लब्धमेवाज्ञानतत्कार्यनिरसनक्षममिति स्फुटीकर्तुं विद्यो-
त्पत्तिं रूपकेण निरूपयति--
आचार्याख्याधरस्थारणि समनुमिलच्छिष्यरूपोत्तरार-
ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।
कर्मालीवासनातत्कृततनुभुवन भ्रान्तिकान्तारपूरे
 
दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्वदस्था ॥ २ ॥
आचार्याख्येति । आचार्याख्यो योऽधरस्थाराणः अधोगतमथनकाष्ठविशेषः,
समनुमिलन् उपनयनद्वारौ आचार्यसन्निधिं प्राप्तो यः शिष्यः, तद्रूपो य उत्तरा-
१. 'न्वात्मनो नानात्व शरीरत्व परिमाणत्वक्षणिकत्वादिधर्मान् केचिदाचक्षते । कथं
सच्चिदानन्दादिस्वरूपत्वेन ज्ञातव्यमित्याह' ग. पाठ:. २. 'व्यतिरिक्त' ख. पाठ: ३. 'रा
 
स' ख. ग. पाठः,