This page has not been fully proofread.

1
 
२०
 
नारायणीये
 
[स्कन्धः - १
 
द्वयाद् भृशम् अतिशयेन उत्तमतरः अत्युत्कृष्टः । अंत्र प्रमाणमाह योगीश्वरै-
रिति, व्यासनारदादिभिः पुराणेषु गीयते वर्ण्यते इत्यर्थः । किञ्च, हे रमावल्लभ ! त्वयि
प्रेम्णो यः प्रकर्पोऽतिशयः तदात्मिका तत्स्वरूपा भक्तिः निःश्रमम् अनायासं यथा
भवति तथा विश्वपुरुषैः सकलजनैः लभ्या खलु, नात्र सन्देह इत्यर्थः । तत्र हेतु-
माह - सौन्दर्येकरसात्मक इति । सौन्दर्यमेकमेव रस आत्मा स्वरूपं यस्य स तथा,
तस्मिन्नित्यर्थः ॥ ७ ॥
 
7
 
-
 
निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिवं
तद् दूरेत्यफलं यद्रौपनिषदज्ञानोपलभ्यं पुनः ।
तत् त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद् विभो !
त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥ ८ ॥
 

 
निष्काममिति । कर्मयोग इत्यभिवाँ नाम यस्य, तत् कर्मयोगाभिधम् ।
निर्गतः कामः फलाभिसन्धिर्यस्मात् तन्निष्कामं, तादृशम् । नियतॆस्य नित्यनैमित्ति
कादेः स्वधर्मस्यै विहितस्य चरणम् अनुष्ठानं यत्, तद् दूरेत्यफलं दूरेत्यं दूरभवं
फलं यस्य, कालान्तरे फलप्रदम् । औपनिषदम् उपनिषत्प्रतिपाद्यं ब्रह्म, तस्य ज्ञानेनो-
पलभ्यं मोक्षाख्यं फलं यत् तत् पुनरव्यक्ततया करणागोचरतया चित्तस्य सुदु-
र्गमतरं कथञ्चनापि प्राप्तुमशक्यं निरस्तसमस्तैषणानां संन्यस्तसमस्तकर्मणामेव
तत्राधिकारात् । हे विभो ! कर्मज्ञानभक्तिमार्गनिष्ठानामप्यभीष्टफलप्रदानसमर्थ !
तस्मात् त्वयि प्रेमात्मिका भक्तिरेव सततम् उत्पत्तौ उत्पन्नायां फलप्राप्तौ च
स्वादीयसी अतिशयेनास्वादनीया श्रेयसी ब्रह्मादिभिरपि प्रशस्यतरा चेत्यर्थः ॥ ८ ॥
 
"
 
१. 'त' ख. पाठः.
यम्यनि' ख. पाठ:.
 
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला
 
वोधे भक्तिपथेऽथवाप्युचिततामायान्ति किं तावता ।
किवा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन-
चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ ९ ॥
अतीति । अत्यायासकराणि बहुसाधनपरिश्रमपूर्वकमनुष्ठेयानि कर्मणां पट-
लानि नित्यनैमित्तिकप्रारुश्चित्तोपासनारूपबहुविधकर्मसमूहान् आचर्य अनुष्ठाय
 
२. 'ते । कि' ख. पाठ: ३. 'धानं संज्ञा य' क. पाठ:. ४: 'तनि-
५. 'स्य चर' ख. पाठ:. ६. 'लं का' ख. पाठ:.