This page has not been fully proofread.

३३४
 
नारायणीये
 
[ स्कन्धः - १९
 
ऽयं देहः इह सकलजन्तुष्वपि परतः अवसाने परं केवलं वहेर्दहनाय
शुनो भक्षणाय वा भवति । साम्प्रतं च जीवत्यपि सति । अक्षिकर्णत्वगुजिह्वाद्या
इति तदधिष्ठातारोऽर्कादिदेवा गृह्यन्ते, अक्ष्यादीनां तदधीनप्रवृत्तित्वात् । आदिशब्देन
वाक्पाण्यादि गृह्यते । एनम् अतइतः स्वस्वविषयेषु रूपादिषु कर्षन्ति । एषु
कोऽपि त्वत्पदाब्जे भगवत्पादारविन्दविषये न कर्षति ॥९॥
 
ननु प्रारब्धकर्मफलस्यावश्यं भोग्यत्वात् तद्भोगस्य च देहगेहासक्त्याय-
तत्वात् तत्त्यागोऽशक्य इति चेत् तर्हि प्रकारान्तरेण मम जन्मसाफल्यं कुर्विति
प्रार्थयते-
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष ! ।
नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
 
क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ! ॥ १० ॥
दुर्बार इति । यदि पुनर्देहमोहो दुर्वारः, तर्हि अधुना अस्मिन् जन्मन्येव
निश्शेषान् बाह्यान् वातादिरोगान् आन्तरान् रागादिरोगान् । द्रढिष्ठाम् अनपा-
यिनीम् । अतिदुर्लभस्यस्य विप्रदेहस्य सफलीकरणेन मां पाहीत्याह-
नूनमिति ॥ १० ॥
 
इति पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनं त्रिनवतितमं दशकम् ।
 
एवं पञ्चविंशत्या गुरुभिरुत्पन्नविवेकज्ञानस्य तत्त्वज्ञानोत्पत्तिप्रकारं दर्शयति —
 
शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत् स्वरूपं परं ते
शुद्धं देहेन्द्रियादिव्यपगतमखिलं व्याप्तमावेदयन्ते ।
 
१. 'श्यभो' क. ग. पाठ:. २. 'इ' क. पाठ:. ३. 'नीं कुरु । अ' ग. पाठ:.
४. 'स्य वि' ख. पाठ:.