This page has been fully proofread once and needs a second look.

पञ्विड्भस्मात्मा विंशतेर् देहो भवति गुरुभ्यः शिक्षणीयस्य वर्णनम् ।
 
विड्भस्मात्मा च देहो भवति गुरु
वरो यो विवेकं विरक्ति
तिं
धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ ८ ॥
 
दशकम् - ९३]
 
-
 
३३३
 

 
त्वयीति । ईश्वरस्य जगत्कारणत्वमूर्णनाभाच्छिक्षणीयमित्याह--त्वयीति ।

त्वत्कृतं त्वया निमित्तोपादानकारणभूतेन सृष्टं त्वय्येव क्षपयासयसि संहरसि । ऊर्णनाभ:

लूता । स हि निमित्तोपादानभूतेन स्वात्मना सृष्टं तन्तुवितानं स्वस्मिन्नेव स्वयं संह-

रति । भगवद्ध्यानं तत्सारूप्यमापादयतीति पेशकाराच्छिक्षयेयमित्याह - --त्वच्चिन्तेति ।

त्वत्स्वरूपं त्वत्सारूप्यम् । दृढं निश्चितम् । पेश: क्षुद्रकुटी, तां करोतीति पेश-

कारो भ्रमरविशेषः । तेन क्षुद्रकुटीं प्रवेशितो निरुद्धः कीटो भयेन तमेव ध्यायन्

तत्सारूप्यं गच्छति । स्वशरीराच्छिक्षण यमाह - णीयमाह--विडिति । देहो मम गुरुवरो

भवति । कुतः, सञ्चिन्त्यमानो विरक्तिं विवेकं च धत्ते करोति । दुर्लभत्वोपकारित्वे

चिन्त्यमाने आत्मानात्मविवेकहेतुः अनित्यत्वपारक्यत्वदुःखोदर्कत्वेषु चिन्त्यमानेषु

विरक्तिहेतुश्च भवतीति भावः । विरक्तिविवेकहेतुत्वमाह — वि--विड्भस्मात्मेति । यदि

श्वादिभिर्भक्षितः, तर्हि विष्ठात्मा भवति । यद्यग्निना दग्धः, तर्हि भस्मात्मा भव-

ति । अतः परकीयोऽनित्यश्चायम् । आत्मा तु सच्चिदानन्दस्वरूपस्तद्व्यतिरिक्त इति

भावः । किञ्च, मम तु अयं देहः बहुरुजापीडितः विविधाभिर्वेदनाभिः परवशीकृतः

सन् विशेषाद् विवेकं विरक्तिं च धत्त इति पूर्वेणान्वयः ॥ ८ ॥
 

 

 
ननु विवेकहेतुत्वेनोपकारिणि देहे मोहः कथं न सम्भवेदित्याशङ्कचक्य देहमोहे

दोषमाविष्कुर्वन् भगवन्तं प्रार्थयते-
-
 
-
 
ही ही मे देहमोहं त्यज पवनपुराधीश ! यत्प्रेमहेतो-

र्गे
हे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति ।

सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतं चाक्षिकर्ण-

त्वग्जिह्वाद्या विकर्षन्त्यशमतइतः कोऽपि न त्वत्पदाब्जे ॥ ९ ॥
 

 
ही हीति । ही ही एवम्भूतेऽपि देहे मम महान् मोह इत्येतदाश्चर्यम् । तं

देहमोहं देहविषयसुखसाधनत्वभ्रांन्तिरान्तिं त्यज । तत्र दोषमाह--यत्प्रेमहेतोरिति

यस्मिन् देहे प्रेम्णा हेतुना गेहादिषु विवशिताः तद्योगक्षेमैकचित्ताः । किञ्च, सो-