This page has been fully proofread once and needs a second look.

प्रथममागतान् स्वल्पार्थदान् पुरुषाननादृत्य अपिनामान्यो भूरिप्रदो मामुपेष्यती-
ति दुराशया दूयमानमनाः निशीथेऽपि जाग्रती पुनश्च निर्वेदासिना धनादौ दुरा-
शा[^१]पाशांश्छित्त्वा सुखं सुष्वाप । एवं निराशो भूत्वा । सुप्यामिति सुखं लभेयेत्येव
विवक्ष्यते । कस्यचिदपि ममत्वेन स्वीकारो दुःखहेतुरित्यत्र कुररो नाम पक्षी गुरु-
रित्याह--भर्तव्येति । आमिषं गृहीत्वापतन्तं कुररमन्ये पक्षिणो जघ्नुः । तद्वद्
भर्तव्ययोगाद् ममत्वेन रक्षणीयद्रव्यसम्बन्धाद् अन्यैः बलिभिः न हन्यै न
हतो भवेयम् ॥ ६ ॥
 
वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं
कन्याया एकशेषो वलय इव विभो ! वर्जितान्योन्यघोषः ।
त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ ७ ॥
 
वर्तेयेति । मानावमानपरित्यागः सुखहेतुरित्यर्भकाच्छिक्षयेयमित्याह--वर्ते-
येति । बहुभिः सह सञ्चारे गोष्ठीकलहादिना श्रीहरिस्मरणकीर्तनादौ प्रमादो भवेदिति
कन्यायाः शिक्षयेयमित्याह--निस्सहाय इति । काचित् कन्यकात्मवरणायागतान्
पुरुषान् भोजयितुं स्वयं शाल्यवहननं कुर्वती प्रकोष्ठस्थशङ्खवलयस्वनजुगुप्सया श-
ङ्खवलयमेकावशिष्टमकरोत् । स इव वर्जितान्योन्यघोषः त्यक्तेतरेतरव्यर्थप्रलापादिः ।
ईश्वरे समाधावितिकर्तव्यतां शरकाराच्छिक्षयेयमित्याह--त्वच्चित्त इति । यथेषुकृद्
प्ष्वृजूकरणे दत्तचित्ततया क्ष्माभृदायाने भेर्यादिघोषं न बुबुधे, तद्वत् त्वाच्चतोऽहं-
मपि परम् अन्यं नावबुध्यै । विषयवासनया मनो न विक्षिपेद्, नापि सुषुप्तावि
सर्वथा लीयेतेति भावः । गृहारम्भोऽनर्थायेति सर्पाच्छिक्षयेयामित्याह--गेहेष्विति।
अहिर्यथोन्दुरोर्मूषिकस्य मन्दिरेषु कुहरेषु वसति, स इव निवसानि ॥ ७ ॥
 
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां
त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् ।
 
१. 'शारिछश्छि' ग. पाठ:.
 
ठः