2023-05-16 06:41:58 by Padmavati
This page has been fully proofread once and needs a second look.
३३१
दशकम् – ९३]
-
भवेयम् । अनेन च प्रारब्धकर्मफलस्यावश्यभोग्यत्वात्
प्रयासोऽपि वृथाकालक्षेपैकफल इत्यपि दर्शितम् । अगाधो गम्भीरः एवम्भूत
इति परिकलयितुमशक्यः । रूपविलासमोहितो नश्यतीति शलभाच्छिक्षणीय-
मित्याह –
मित्याह--मा पप्तमिति । योषिति प्रमदायां हावभावा[^१]दिभिः, आदिशब्दात्
कटककटिसूत्रहारदुकूलादावतिमनोहरे वस्तुनि परमार्थतो दुःखहेतावुपभोग्य
मा पप्तं यथाग्नौ तद्
मधु भजति, एवं सर्वशास्त्रेषु सारं श्रीनारायणस्मरणरूपमर्थमेव भजेयम् ।
शिक्षणीयान्तरमाह
विशिष्टगन्धलोभेनैकस्मिन्नेव पद्मे वसन्नस्तमये मुकुलिते तस्मिन् बध्यते, तद्वदह-
मप्यर्थार्जनाद्
मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतैः ।
नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः
सुप्यां भर्तव्ययोगात् कुरर इव विभो ! सामिषोऽन्यैर्न हन्यै ॥६॥
मेति । स्त्रीणामङ्गसङ्गो बन्धहेतुरिति गजाच्छिक्षणीयमित्याह
मिति। वशया करिण्या। गजो हि करिणीं प्रदर्श्य निखातपिहितगर्ते निपात्य बध्यते
करिणीजठरे बद्धचर्मान्तर्भूतपुरुषेणेति वा । त्यागभोगहीनं धनं न सञ्चिनुयादिति
माध्वीहराच्छिक्षणीयमित्याह
प्यति । माध्वीहरो हि तरुकोटरादिषु मक्षिकाभिः सञ्चितं मधु हरति, तद्वत् ।
गीतादिशब्दसक्तिर्नाशहेतुरिति मृगाच्छिक्षणीयमित्याह
मृगयोर्गीतेन मोहितस्तेन निगृह्यते, तद्वत् । ग्राम्यगीतैरिति । भगवद्गीतेष्वेवासक्तिर्भ-
वेदिति भावः । रसासक्तिर्नाशहेतुरिति मीनाच्छिक्षणीयमित्याह
मत्स्यः बडिशे आमिषावृतलोहकण्टके । आशा दुःखहेतुः नैराश्यं सुखहेतुरिति
पिङ्गलायाः शिक्षणीयमित्याह
[^१]. 'वविलासै: आ' क. पा
[^२]. 'नि दुः' ख. पाठः
[^३]. 'र्णप्रलो' क. पाठः.
[^४]. 'ते । त्या' क. ग. पा
[^५]. 'त्यत्र मृगो गुरुरित्या' क. ग. पा
३. 'र्णप्रलो' क. पा