This page has not been fully proofread.

३३०
 
नारायणीये
 
[स्कन्ध: - १
 
पुष्टिरिति । पूर्वपक्षप्रतिपदमारभ्य क्रमाद् दूरैस्थितस्यादित्यमण्डलस्य पञ्चदशः
पञ्चदशो भागो जलमये चन्द्रमण्डले प्रतिबिम्बितो दृश्यते। ते प्रतिबिम्बाश्चन्द्रस्य
कला इत्युच्यन्ते । यथा तासामेव पुष्टिं नष्टिं च विद्यां, न शशिनः, तद्वत् तनोरेव
जन्मास्तित्व विपरिणामविवृद्ध्यपक्षयविनाशरूपाः षड् भावविकाराः, न त्वात्मन इति
विद्यामित्यर्थः । आदित्यदृष्टान्तेनावगन्तव्यमाह—तोयादीति । यथैको मार्तण्डो-
ऽनेकेषु घटोदकादिषु व्यस्तोऽनेको दृश्यते, तद्वत् तनुषु सर्वशरीरेषु आत्मन उपा-
धिभेदेन भेदप्रतीतावप्येकतामपि च विद्याम् । त्वत्प्रसादादिति सर्वत्र योज्यम् ॥
 
स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं
 
प्राप्तं प्राश्नन् सहेयै क्षुधमपि शयुवत् सिन्धुवत् स्यामगाधः ।
मा पतं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी
भूयासं किन्तु तद्वद् धनचयनवशान्माहमीश! प्रणेशम् ॥ ५ ॥
 
स्नेहादिति । स्नेहः सन्तापहेतुरिति कपोताद् ग्राह्यमित्याह—स्नेहादिति ॥
व्याधेन लुब्धकेन अस्तेषु निगृहीतेषु पुत्रेषु प्रणयेन मृतो यः
कपोतः स इवाचरतीति तथा । कश्चिद् वनेचरो नीडान्तिके सञ्चरतः
पक्षिणो जालमातत्य प्रतिपालयामास । तत्र प्रथममजानन्तः कपोतशिशवो जालेना-
वृताः । तान् दृष्ट्वा कपोती च दुःखेनापतत् । कपोतश्च पुत्रभार्याविलपनविचे-
ष्टनादिदर्शन जनितदुःखप्रणयकरुणान्धधीः स्वयमपि विलपन्नपायमगमत् । एवं
मा भूवमिति भावः । अजगरादुपदेष्टव्यमाह — प्राप्तमिति । शयुः अजगरः
तद्वत् प्राप्तं प्राश्नन् यथालब्धेन शरीरनिर्वाहमात्रं कुर्वन् क्षुधं सहेय साँढुं शक्तो
 
१. 'रदेशस्थि' क. ग. पाठ:. २. कोऽपि मा' ग. पाठः ३. 'पि वि' क. ग. पाठः,
'र्ववाक्यशेषः' क. ग. पाठ:. ५. 'यं' क. पाठः.
 
* नशेर्लुङि पुषादित्वादङ् । 'नशिमन्योरलियेत्वमिति भाष्यवार्तिकादत एत्वम् ।
छन्दोग्रहणं तु वाक्यभेदेनामिपचोरेव सम्बध्यते, 'अनेशद् मेनकाम्' इत्यादिलक्ष्यानुरोधादिति
वृत्त्यनुसारेणेदम् ।